Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
तत्त्वसार टीकायाम्
विंशतितमोरधिकारः
.१४९॥
PRAKASH ATRUCA
टीका-कदा सर्वथा मुक्तो भवति इत्याह-स तावतेत्यादिना 'सः'-पूर्वोक्तो योगी, 'यदि 'ति निश्चयेन, 'तावता'-तत्कालपर्यन्तम् , ' इह-अस्मिन्संसारे, 'शरीरधारी अस्ति'-देहधारको भवति, ‘यावत् '-यत्कालपर्यन्तम् , 'सूक्ष्मक्रियातोऽपि '-सूक्ष्मक्रियापि, सूक्ष्मा चेष्टाऽपि, 'नष्टा'-नाशं प्राप्ता भवति, 'तदा'-तस्मिन्काले, 'सिद्धताप्तेः, सिद्धत्वप्राप्ते, हेतौ पञ्चमी, 'मुक्तः सिद्ध्यति'-मुक्तो जायते, मुक्तिर्मन्यत इतिभावः ॥ ३५ ॥
सिद्धौ निष्क्रियतां चतुःश्लोकैराहमूलम्-विद्वन् ! विमर्शः क्रियतामयं क्रिया-वन्तोऽथवा निष्क्रियकाश्च सिद्धाः ।
चेन्निष्क्रिया ज्ञानजदर्शनोत्थ-क्रियाऽक्रियेष्वेषु कथं न सिध्येत् ? ॥ ३६॥ टीका-मुक्तेषु क्रियाविषयकप्रश्नमाह-विद्वन्नित्यादिना 'विद्वन् !'-हे बुध !, 'अयं'-वक्ष्यमाणः, 'विमर्शःविचारः, 'क्रियताम् '-विधीयताम् , भवता यत् 'सिद्धाः'-सिद्धि प्राप्ता जीवाः, 'क्रियावन्तः'-क्रियायुक्ता भवन्ति, ' अथवा '-यद्वा, ' निष्क्रियकाः'-क्रियारहिता भवन्ति, 'च' शब्दश्वरणपूर्ती, 'ते'-सिद्धाः, 'निष्क्रियाः'-क्रियारहिता भवन्ति, तर्हि ' अक्रियेषु'-क्रियारहितेषु, 'एषु'-सिद्धेषु, 'ज्ञानजदर्शनोत्थक्रिया'-ज्ञानोत्पन्ना दर्शनोत्पन्ना च क्रिया, 'कथं न सिध्येत् ?'-कुतः कारणान्न सिध्यति ? ॥ ३६ ॥
१. सिद्धेषु ।
*J॥१४९॥
Loading... Page Navigation 1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328