Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 311
________________ टीका – भ्रमोत्पत्तिद्वारोक्तविषयमेवाह - भ्रम इत्यादिना ' अत्र ' - अस्मिन्संसारे, भ्रमः ' मिथ्यानिजकल्पनोत्थितः ’– मिथ्याऽसत्या या निजकल्पना - स्वकल्पनाऽस्ति तस्या एवोत्थितः - उत्पन्नोऽस्ति, 'येनैव ' - यद्वशादेव, ' यथा ' येन प्रका रेण, ‘नलिनीशुकः ’– जीवविशेषः, 'बद्ध : ' - बन्धनं प्राप्तो भवति, ' तद्वत्' - तथा, 'पुनरि 'ति विनिश्चये, 'मर्कटोऽपि 'वानरोऽपि, ' बद्धः ' - बन्धनं प्राप्तो भवति, ' तथा ' - तेनैव प्रकारेण, ' एषः ' - प्रसिद्धः, 'आत्मा'- जीवः, ' भ्रमतः 'भ्रमवशात्, ' निबद्धः - बन्धनं प्राप्तो भवति ॥ ३० ॥ मूलम् - भ्रमे तु मुक्ते मनसः सकाशादात्मैष मुक्तो भवतीति सिद्धम् । अस्मिंस्तु मुक्ते हि भवेदभेद - स्तदात्मनः श्रीपरमात्मनश्च ॥ ३१ ॥ टीका - भ्रममुक्तौ किं भवतीत्याह - भ्रमे त्वित्यादिना 'तु' शब्दो भिन्नक्रम प्रदर्शनार्थः, 'मनसः सकाशात् ' - मानसवस्तुनि ममेदमिति स्वबुद्धिं कुर्वाणः कर्मभिर्बध्यते । यदा तु शरीरादिके वस्तुनि अनात्मीयतामाचरति अरक्तोऽद्विष्टश्च तिष्ठति तदा संसारस्थोऽपि मुक्तो भवति यदा त्वयमात्मा मुक्तस्तदान्तरात्मनः पारमात्म्यं प्रादुःष्यात् यत उच्यते । बहिरात्मान्तरात्मापरात्मामेदादात्मा त्रिविधः, तत्र यावता हेयोपादेयविचारवैकल्यात् केवलेन्द्रियविषयासक्तो भवेत्तदा बहिरात्मा हेयोपादेयज्ञानवान् विषयसुख पराङ्मुखो भवान्तर्वर्तिवस्तुरक्तद्विष्ठमनोनिवृत्तिमान् विरक्तोऽन्तरात्मा अयमेव यदा सिद्ध केवलात्मज्ञानस्तदा परात्मेत्युच्यते तदात्मपरमात्मनोर्न भेदवान् भवति यदा तु योगी आत्मानमात्मनात्मनि परमात्मभूतं पश्यति तदा योगी आत्मज्ञानी उच्यते स हि केवलज्ञानीति पर्यायान्तरं लभते ततश्चाऽयं कर्ममुक्तः क्रियामुक्तः भ्रान्तिमुक्तश्च स्यात् इति योगिसमाचारः । अथ काव्यद्वयेनोक्तामे वाऽवस्थां दृढयति यदा त्वयमित्यादि ।

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328