Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
%%A4%
टीका-मोक्षस्योक्तमार्ग क्लिष्टमवगत्य सरलमार्गमवजिगमिषुराह-मुनीशेत्यादि मुनीश!'-हे मुनिराज !, 'केवलराजयोगात् '-केवलं राजयोगेन, ' श्रेयःश्रिये'-मोक्षसम्पत्तये, 'एषः'-पूर्वोक्ता, ' मुक्तेर्मार्गः'-मोक्षस्य पन्थाः, भवता | 'साधूदितः'-सम्यक्तया कथितः, कथम्भूतो मुक्तेर्मार्गः ? 'जिनेन्द्रागमयुक्तिसिद्धः'-जिनेन्द्रस्याऽऽगमद्वारा तथा युक्तिद्वारा | सिद्धि प्राप्तः, पुनः कथम्भूतः ? 'उत्सर्गनोत्सर्गहठाभिमुक्तः'-उत्सर्गापवादलक्षणैकान्तकर्त्तव्यतारूपहठेन रहितः, स्याद्वा| दाधिश्रित इत्यर्थः, 'परं'-परन्तु, ' ही 'ति चरणपूर्ती, 'मे'-मम, 'स:'-एवम्भूतः, ' मुक्तेः'-मोक्षस्य, 'सरलः'
सुगमः, 'मार्गः'-अध्या, 'निवेद्योऽस्ति'-कथयितव्योऽस्ति, 'य:'-मार्गः, 'सर्वमतानुयायी'-सर्वदर्शनानुकूलः, | सर्वमतैरविरुद्ध इत्यर्थः, स्यात्तथा यः, ' श्रमं विना '-प्रयासमन्तरेण, 'द्रुतं'-शीघ्रम् , 'आत्मदृष्ट्यै'-आत्मज्ञानाय स्यात् , तथा यः, 'अध्यात्मविद्याधिगमैकहेतुः'-अध्यात्मज्ञानप्राप्तेरद्वितीयं कारणम् ॥ २३-२४ ॥
मूलम्-अहो ! त्वदीया खलु सूक्ष्मदृष्टि-र्यन्मच मुक्त्यर्थमयं विचारः ।
चित्ते समुत्पन्न इयानिदानी, मन्ये तदा तेऽत्र मनोऽस्ति मुक्त्यै ॥ २५॥ टीका-अस्योत्तरमाह-अहो ! इत्यादिना 'अहो !' इत्यामन्त्रणे, 'खल्वि 'ति निश्चये, ' त्वदीया'-त्वत्सम्बन्धिनी, तवेत्यर्थः, 'सूक्ष्मदृष्टिः '-मूक्ष्मपदार्थज्ञानशक्तिरस्ति, 'यत् '-यस्मात् कारणात् , 'मुक्त्यर्थ '-मुक्तये, मुक्तिनिमित्तमितिभावः, 'मक्षु'-शीघ्रमेव, 'इदानीम् '-अधुना, 'इयान्'-एतावान् , गंभीर इतिभावः, 'अयं'-पूर्वोक्तः, 'विचारः'-विमर्शः, तव 'चित्ते समुत्पन्नः'-मनस्यजायत, 'तदा'-तर्हि एवं सतीति यावत् अहम् ' मन्ये '-जानामि,
95
%
%
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328