Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
मूलम् - आत्मावबोधेन निवार्यमात्माऽज्ञानोद्भवं दुःखमनन्तकालिकम् । अनेक कष्टाचरणैरपीदं, विनाऽऽत्मबोधादनिवार्यमस्ति यत् ॥ २० ॥
टीका - आत्मज्ञानप्राप्तौ फलमाह - आत्मेत्यादिना 'आत्मावबोधेन' - आत्मज्ञानेन, 'दुःखं' - क्लेशः, 'निवार्य' - निवारयितुम योग्यम् भवति, कथम्भूतं दुःखम् ? 'आत्माऽज्ञानोद्भवम्' - आत्मनोऽज्ञानेनोत्पन्नम् पुनः कथम्भूतम् ? 'अनन्तकालिकं - अनन्तकाल स्थितियुक्तम्, अत्र हेतुमाह- अनेकेत्यादिना 'यत्' - यस्मात् कारणात्, 'इदं'-दुःखम्, 'आत्मबोधाद्विना' - आत्मज्ञानमन्तरेण, ‘अनेककष्टाचरणैरपि ' - कष्टसाध्यप्रभूतव्यवहारैरपि ' अनिवार्यमस्ति ' - निवर्तयितुम् अयोग्यं भवति ॥ २० ॥ मूलम् - चिद्रूप आत्मायमधिष्ठितस्तनुं, कर्मानुभावादसकौ शरीरी । ध्यानाग्निनिर्दग्धसमस्तकर्मा, स्याच्छुद्ध आत्मा तु तदा निरञ्जनः ॥ २१ ॥
टीका - आत्मावस्थामाह - चिद्रूप इत्यादिना 'कर्मानुभावात् ' - कर्मप्रभावात्, 'अयं ' - पूर्वोक्तः, 'चिद्रूपः 'ज्ञानरूपः, अपि ' आत्मा - जीवः, ' तनुमधिष्ठितः ' - शरीराश्रितोऽस्ति तथा, 'असकौ ' आत्मा, 'शरीरी - शरीरधारी, ' उच्यते ' - कथ्यते, ' तु ' - परन्तु, यदा ' ध्यानाग्निदग्धसमस्तकर्मा ' - ध्यानरूपाग्निना दग्धानि-दाहं नीतानि - सकलानि कर्माणि येन सः, तथा भवति तदा ' अयम् ' - आत्मा, 'शुद्धः '-निर्मलः, दोषशून्य इतिभावः, तथा 'निरञ्जनः स्यात् :निर्लेपो भवति ॥ २१ ॥
१. प्रभावात् ।
२५
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328