Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
यावत्कषायान्विषयान्निषेवते, संसार एवैष निंगद्य आत्मा । एतद्विमुक्तोऽजनि यावदात्मा-वबोधयुग्मोक्ष इतीहितोऽयम्
॥ १७ ॥
टीका — उक्तविषयपुष्ट्यर्थमेवाह - एवमित्यादि ' एवम् ' - अनया रीत्या, 'मुक्तिमिच्छुमिः --मोक्षाभिलाषिभिः, 'समस्तैरपि '--सर्वैरपि जनैः, ' आत्मबोधात् ' - आत्मज्ञानात्, मुक्तिः 'नियता ' - निश्चिता, ' समेध्या ' -सममिलषणीयाऽस्ति, - आत्मज्ञानान्निश्चयेन मुक्तिर्भवतीति, 'सर्वैरपि '- मोक्षाभिलाषिभिः, मन्तव्यमितिभावः, अत्र हेतुमाह - अस्या इत्यादिना 4 यतः ' - अस्मात् अन्यत्, आत्मबोधादितरत्, 'किञ्चित् ' - किमपि वस्तु, ' अस्याः '-मुक्तेः, 'निमित्तं नहि न्यगादि :कारण नैव कथितमस्ति, ' यत् ' - यस्मात् कारणात्, 'प्रगुणैः '- उत्कृष्टगुणयुक्तैः, महात्मभिर्जनैः, 'एतद् ' वक्ष्यमाणम्, उच्यते'-कथ्यते, यत् ' यावत् ' - यत्कालपर्यन्तम्, 'आत्मा'- जीवः, 'कपायान् '-क्रोधादीन्, 'विषयान्' - रूपादीन्, ' निषेवते ' - परिसेवते, तावत् ' एषः - आत्मा, 'संसार एव निगद्यः - संसार एव कथनीयोऽस्ति परन्तु 'यावत् '-यत्, 'आत्मा' - जीवः, ' एतद् विमुक्तः ' - कपायविषयरहितः सन्, 'अवबोधयुग् ' - ज्ञानयुक्त:, ' अजनि ' - अजायत, तदा ' अयं ' - आत्मा, ' मोक्ष इतीहितः ' - मोक्ष इति कथितो भवति ।। १६-१७ ।
“
मूलम् - ज्ञानं तथा दर्शनकं चरित्र - मात्मैष वाच्यो नहि किञ्चिदस्मात् । भिन्नं यदेतन्मय एव देह - मेष श्रितस्तिष्ठति कर्मनिष्ठः ॥ १८ ॥
१. वक्तव्यः | २. कर्म ( कषायविषय ? ) । ३. आत्मा । ४. युक्तः ।
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328