Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
%
जैन
तस्वसार
विंशतितमोऽधिकारः
टीकायाम्
॥१४४॥
टीका-आत्मस्वरूपमेव विवृणोति-ज्ञानमित्यादिना 'ही'ति निश्चयेन, 'ज्ञानम् ' 'दर्शनकम्'-दर्शनम् , 'तथे 'ति समुच्चये, 'चरित्रं'-चारित्रम्, 'एषः'-प्रसिद्धा, 'आत्मा'-जीवः, 'वाच्यः'-कथनीयोऽस्ति, आत्मैव ज्ञान-दर्शनचारित्रशब्दैर्वाच्योऽस्तीतिभावः, 'अस्मात् '-आत्मनः, 'भिन्नं'-पृथक्, 'किञ्चित् '-किमपि नास्ति, अत्र हेतुमाह-यदित्यादिना ' यत् '-यस्मात् कारणात् , 'कर्मनिष्ठः'-कर्मयुक्तः, 'एषः'-आत्मा, 'एतन्मय एव'-ज्ञान-दर्शन-चारित्रस्वरूप एव, 'देहं श्रितस्तिष्ठति'-शरीराश्रितो वर्तते ॥१८॥ मूलम्-आत्मानमात्मैष यदाभिवेत्ति, मोहक्षयादात्मनि चात्मशक्त्या ।
तदेव तस्योदितमात्मविद्भि-निं च दृष्टिश्चरणं ताप्तः ॥ १९ ॥ टीका-अत्रैव पुष्टिमाह-आत्मानमित्यादिना 'यदा'-यस्मिन्काले, 'एषः'-प्रसिद्ध आत्मा, 'मोहक्षयात्'--'मोहस्य | नाशेन, 'च'-पुनः, 'आत्मशक्त्या'-स्वज्ञानबलेन, हेतौ तृतीया पश्चमी च, 'आत्मनि'-आत्मविषये, 'आत्मानं'-स्वरूपम् , 'अभिवेत्ति'-सम्यक्तया जानाति, 'तदैव'-तस्मिन्नेव काले, 'तस्य'-आत्मनः, 'आप्तैः'-यथार्थवक्तृभिः, परमप्रत्ययवद्वचो विशिष्टैरहद्भिरितिभावः, 'ज्ञानम् ' दृष्टिः'-दर्शनम् , 'च'-पुनः, 'चरणं'-चरित्रम् , ' उदितं'-कथितमस्ति , ' तथा ' शब्दो विनिश्चये, कथम्भूतैराप्तैः ? 'आत्मविद्भिः'-आत्मज्ञानिभिः ॥ १९ ॥
१. स्वशानबलेन । २ आत्मनः । ३. दर्शनं । ४. अर्हद्भिः परमप्रत्ययवद्वचोविशिष्टैः ।
WI॥१४४॥
Loading... Page Navigation 1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328