Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 302
________________ जैन तत्त्वसार टीकायाम् विंशतितमोऽधिकार .03. 450 मुख्यः'-विष्णवादिः, 'अस्याः'-मुक्तः, 'हेतुर्नास्ति'-कारणं न विद्यते, 'तत् '-तस्मात्, 'आत्मावगमस्पृहा'आत्मज्ञानाकांक्षा, 'एष्या'-अभिलपणीयाऽस्ति ॥१४॥ मूलम्-ये तु स्वभावान्निगदन्ति मुक्ति, तत्राऽप्यसावेव निवेदितोऽर्थः । स्वस्याऽऽत्मनो भोव इहाप्तिरुक्ता, तदात्मलाभान्ननु सिद्धिलक्ष्मीः ॥ १५ ॥ टीका-मतान्तरं परिहर्तुमाह-ये वित्यादि 'तु'-पुनः, 'ये'-स्वभाववादिनो जनाः, 'खभावात् '-स्वभावसकाशात , 'मुक्तिं निगदन्ति'-मोक्षं कथयन्ति, स्वभावान्मुक्तिर्भवतीति कथयन्तीतिभावः, 'तत्रापि'-तद्विषयेऽपि, 'असावेव'-पूर्वोक्त एव, 'अर्थः'-आशयः, 'निवेदितः'-कथितः, ज्ञेयः, ' यत् '-यः, ' स्वस्य'-खकीयस्य, 'आत्मनः'| जीवस्य, भावोऽस्ति सः एव, 'इह-अस्मिन्संसारे, 'आप्तिरुक्ता'-प्राप्तिः कथिताऽस्ति, 'भावः'-भूप्राप्तावित्यस्माद् धातो र्भावः सिद्धः स च प्राप्त्यपरपर्यायः एवं च स्वस्थाऽऽत्मनो भावः प्राप्तिः याथातथ्येनाऽऽत्मनोऽवबोधेनाऽऽत्मलाभो योऽस्ति स एव स्वभाव उच्यत इतिभावः, 'नन्विति निश्चयेन, 'तस्मात्'-कारणात् , स्वभावशब्दस्याऽऽत्मलाभवाचकत्वात् इतिभावः, 'आत्मलाभात् '-स्वभावात् , आत्मज्ञानप्राप्तेरित्यर्थः, 'सिद्धिलक्ष्मीः'-सिद्धेः संपत् , मुक्तिरित्यर्थो भवति ॥ १५ ॥ मूलम्-एवं समस्तैरपि मुक्तिमिच्छुभि-मुक्तिः समेष्या नियतात्मबोधात् । अस्या निमित्तं नहि किश्चिदस्मा-दन्यन्यगादि प्रगुणैर्यदुच्यते ॥ १६ ॥ १. भूप्राप्तावित्यस्य भावः प्राप्तिरित्यर्थः स्वस्यात्मनो भावः प्राप्तिः याथातथ्येनाऽऽत्मनोऽवबोधेनाऽऽत्मलाभ इत्यर्थः । २. मुक्तः। C ASSA ॥१४३॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328