Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 301
________________ SAMACHAR मूलम्-स्वादात्मनो योऽवगमो बभूव, भावात्समाख्याद्गतरागरोषात् । अपूर्वलाभान्निखिलार्थदृष्टे-रध्यात्मयोगः स्वत एव सिद्धः॥ १३ ॥ टीका-आत्मभवावबोधात् कथमध्यात्मयोगसिद्धिरिति दर्शयितुमाह-स्वादित्यादि 'समाख्यात्' 'समनामका भावात्'अंतराशयात , समभावादित्यर्थः, 'गतरागरोषात्'-रागद्वेषप्रणाशात् , 'अपूर्वलामात्'-अप्राप्ततादृग्लाभात, तथा' निखिलार्थदृष्टेः-सकलद्रव्यदर्शनात् , सर्वत्र हेतौ पञ्चमी 'इति '-एतेभ्यो हेतुम्यः, 'स्वात् '-स्वकीयात् , 'आत्मनः'-जीवात् , 'योऽवगमो बभूव '-यद्ज्ञानमभवत्, 'स:'-अध्यात्मयोगः, आत्मानमधिकृत्य प्रवृत्तो योगः, 'स्वत एव'-स्वयमेव, अन्याऽपेक्षया विनैवेतिभावः, 'सिद्धः'-सिद्धि प्राप्तोऽस्ति ॥ १३ ॥ मूलम्-एवं हि यश्चाऽऽत्मभवात्मबोध-स्तस्मान्नृणां जायत एव मुक्तिः। ____ अस्या न हेतुस्त्वपरोऽस्ति विष्णु-मुख्यस्तदात्माऽवेगमस्पृहैष्या ॥ १४ ॥ ___टीका-फलितमाह-एवमित्यादिना 'ही' ति निश्चये, 'च' शब्दश्चरणपूर्ती, 'एवम् '-अनया रीत्या, 'य:'आत्मभवात्मबोधः, स्वयमुत्पन्नम् आत्मज्ञानमस्ति, 'तस्मादेव'-पूर्वोक्तादात्मभवात्मबोधादेव, 'नृणां'-मनुष्याणाम् , | 'मुक्तिः'-मोक्षः, 'जायते'-उत्पद्यते, ' तु'-किन्तु, 'अपरः'-भिन्नः, आत्मभवात्मबोधादन्य इत्यर्थः, 'विष्णु १. समभावात् । २. अप्राप्तताहग्लाभात् । ३. सकलद्रव्यदर्शनात् । ४. मुक्तेः । ५. शानम् ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328