Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
जैनतत्त्वसार
एकोनविंशोsधिकार
टीकायाम्
३१३७॥
मन्त्रस्य हंसमात्युदाहरणद्वारा देतीत्थं भगवत्स्यदेहिनाम् ।
%AA%A%AASAGACASSA
मूलम्-यथा विषं गारुडहंसजाङ्गुली-मन्त्रस्य जापाच्छ्रवणाच्च देहिनाम् ।
मूर्छावतां तत्त्वमजानतामपि, विनश्यतीत्थं भगवत्स्मृतेरघम् ।। २४ ॥ टीका-अधीशस्मृत्यैव कथं तेषां स्वार्थसिद्धिरित्युदाहरणद्वारा दर्शयति-यथेत्यादिना ' यथा'-येन प्रकारेण, 'गारुड| हंसजागुलीमन्त्रस्य'-गरुडसम्बन्धिमन्त्रस्य हंससम्बन्धिमन्त्रस्य जागुलीमन्त्रस्य च, 'जापात्'-जपनात् , 'च'-पुनः, 'श्रवणात् '-श्रवणेन, ‘मृवितां'-मृछौँ प्राप्तानाम् , 'देहिनाम् '-प्राणिनाम् , 'विषं'-गरलं, 'विनश्यति'-नाशं याति, ' इत्थम् '-अनयैव रीत्या, 'तत्त्वमजानतामपि '-तत्वमज्ञातृणामपि जनानाम् , ' अघं'-पापम् , ' भगवत्स्मृतेः'भगवतः स्मरणेन विनश्यति ॥ २४ ॥ मूलम्-तथाऽस्थिभक्षीति हुमायपक्षी, प्रसिद्धिमान्सन्ततजीवरक्षी।
उड्डीयमानस्य यदस्य छाया, यन्मूर्द्धगा सोऽत्र भवेन्नरेन्द्रः ॥ २५ ॥ १. ननु योगिनः सम्यग्भगवत्स्वरूपं यथास्थितं न विदन्ति भगवानपि निःस्पृहो नीरागश्च ततः केवलं भगवत्स्मृत्या एव | योगिनां किं सिद्धयेदित्याह यथा विषमिति । ननु भगवद्ध्यायका योगिनस्तु यदि भगवत्स्वरूपं न जानन्ति, परं भगवांस्तु जानाति अयं ध्याता मां ध्यायति एवं गारुडिको गारुडादिमन्त्रान्वेत्ति परं विषा? यद्यपि गारुडादिमन्त्रस्वरूपं न जानाति तथाऽप्यस्य गारुडिकप्रयुक्तगारुडादिमन्त्रप्रयोगाद्विषनाश एवं योगिनोऽपि सम्यग्भगवज्ञानाभावेऽपि भगवन्नामाक्षरप्रभावात् दुष्कर्मक्षये पापं नश्यतीति एवमेकपक्षभूतेऽपि ज्ञानेऽभीष्टसिद्धिः । २. आस्तामेकपक्षजमपि ज्ञानमुभयपक्षविकलेऽपि झाने संयोगमात्रादपीष्टसिद्धिर्यथा हुमायपक्षिणो यस्य शिरसि छाया निपतति स पातसाहिर्भवति तत्र हुमायोऽपि न वेत्ति यदस्य
CAKACAAAAA
T
१३७
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328