SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार एकोनविंशोsधिकार टीकायाम् ३१३७॥ मन्त्रस्य हंसमात्युदाहरणद्वारा देतीत्थं भगवत्स्यदेहिनाम् । %AA%A%AASAGACASSA मूलम्-यथा विषं गारुडहंसजाङ्गुली-मन्त्रस्य जापाच्छ्रवणाच्च देहिनाम् । मूर्छावतां तत्त्वमजानतामपि, विनश्यतीत्थं भगवत्स्मृतेरघम् ।। २४ ॥ टीका-अधीशस्मृत्यैव कथं तेषां स्वार्थसिद्धिरित्युदाहरणद्वारा दर्शयति-यथेत्यादिना ' यथा'-येन प्रकारेण, 'गारुड| हंसजागुलीमन्त्रस्य'-गरुडसम्बन्धिमन्त्रस्य हंससम्बन्धिमन्त्रस्य जागुलीमन्त्रस्य च, 'जापात्'-जपनात् , 'च'-पुनः, 'श्रवणात् '-श्रवणेन, ‘मृवितां'-मृछौँ प्राप्तानाम् , 'देहिनाम् '-प्राणिनाम् , 'विषं'-गरलं, 'विनश्यति'-नाशं याति, ' इत्थम् '-अनयैव रीत्या, 'तत्त्वमजानतामपि '-तत्वमज्ञातृणामपि जनानाम् , ' अघं'-पापम् , ' भगवत्स्मृतेः'भगवतः स्मरणेन विनश्यति ॥ २४ ॥ मूलम्-तथाऽस्थिभक्षीति हुमायपक्षी, प्रसिद्धिमान्सन्ततजीवरक्षी। उड्डीयमानस्य यदस्य छाया, यन्मूर्द्धगा सोऽत्र भवेन्नरेन्द्रः ॥ २५ ॥ १. ननु योगिनः सम्यग्भगवत्स्वरूपं यथास्थितं न विदन्ति भगवानपि निःस्पृहो नीरागश्च ततः केवलं भगवत्स्मृत्या एव | योगिनां किं सिद्धयेदित्याह यथा विषमिति । ननु भगवद्ध्यायका योगिनस्तु यदि भगवत्स्वरूपं न जानन्ति, परं भगवांस्तु जानाति अयं ध्याता मां ध्यायति एवं गारुडिको गारुडादिमन्त्रान्वेत्ति परं विषा? यद्यपि गारुडादिमन्त्रस्वरूपं न जानाति तथाऽप्यस्य गारुडिकप्रयुक्तगारुडादिमन्त्रप्रयोगाद्विषनाश एवं योगिनोऽपि सम्यग्भगवज्ञानाभावेऽपि भगवन्नामाक्षरप्रभावात् दुष्कर्मक्षये पापं नश्यतीति एवमेकपक्षभूतेऽपि ज्ञानेऽभीष्टसिद्धिः । २. आस्तामेकपक्षजमपि ज्ञानमुभयपक्षविकलेऽपि झाने संयोगमात्रादपीष्टसिद्धिर्यथा हुमायपक्षिणो यस्य शिरसि छाया निपतति स पातसाहिर्भवति तत्र हुमायोऽपि न वेत्ति यदस्य CAKACAAAAA T १३७
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy