________________
ये योगिनो द्रव्यपरिग्रहेण विना विभान्तीह भवे महान्तः ।
तेषां त्वधीशस्मृतिरेव युक्ता, तैयैव तत्स्वार्थकृतिः समस्ता ॥ २३ ॥
टीका - अस्योत्तरमाह - साधूच्यत इत्यादिना ' हे साधुजन !' हे श्रेष्ठजन !, त्वया ' इदं ' - पूर्वोक्तं वचनं, 'साधूच्यते ' - प्रशस्तं कथ्यते, ' परं ' - परन्तु, ' अत्र ' - अस्मिन् विषये, पूजानामजापविषयमित्यर्थः, ' महद्भिः ' -महात्मभि र्जनैः, ' विवेककृतः ' - विवेचनम् कृतमस्ति, अधिकारभेदेनोक्तविषययोर्भेदः प्रतिपादित इत्यर्थो भेदमेव दर्शयति- इम इत्यादिना ' खल्वि 'ति निश्चयेन, ये ' इमे ' - प्रसिद्धा:, ' गृहस्था: ' - गृहिणः, 'समर्थाः ' - शक्ताः सन्ति, ' ते ' - गृहस्थाः, ' द्रव्यभावार्चनकाधिकारिणः ' - द्रव्यभावद्वारा पूजाया अधिकारिणः सन्ति, परन्तु ' इहभवे ' - अस्मिन्संसारे, ये 'महान्तः ' - महात्मनः, 'योगिनः ' योगाभ्यासकर्त्तारो जनाः, 'द्रव्यपरिग्रहेण विना विभान्ति ' - अर्थग्रहणमन्तरा शोभन्ते, निष्परिग्रहा वर्त्तन्त इतिभावः, ' तेषां ' - पूर्वोक्तानाम्, 'महतां ' - योगिनाम्, 'तु' शब्दो भिन्नक्रमप्रदर्शनार्थः, ' अधीशस्मृतिरेव युक्ता ' - भगवन्नामजाप एव योग्योऽस्ति, कुत इत्याह- तथैवेत्यादिना यतः ' समस्ता ' - सर्वा, ' तत्स्वार्थकृतिः '- तेषां योगिनां स्वार्थस्य सिद्धिः, ' तथैव ' - अधीशस्मृत्यैव सञ्जायते ॥ २२-२३ ॥
१. भगवत् । २. अधीशस्मृत्या । ३. तेषां योगिनां स्वार्थसिद्धिः सर्वाऽपि भवेत् ।