________________
जैन
तत्त्वसार
एकोनविंशोsधिकारः
टीकायाम्
॥१३६॥
'तथा'-तेनैव प्रकारेण, 'यदि' 'एक' 'कोऽपि'-कश्चन, 'नृपाऽपराधी'-नृपाऽपराधकर्ता जनः, भवति तर्हि 'असौ'पूर्वोक्तो जनः, 'सपरिच्छदोऽपि'-परिवारयुक्तोऽपि, 'निहन्यते '-मार्यते ॥ २०॥
परमेश्वरनामस्मरणस्यापि आवश्यकता नवभिः श्लोकैराहमूलम्-ययेवमर्चादिकपुण्यमेतत् , सर्वात्मना स्वार्थकरं निरुक्तम् ।
तदैतदेवाद्रियतां जनौघः, किं नामजापे विहिता प्रवृत्तिः ॥ २१ ॥ टीका-अत्र प्रश्नयति ' यद्येवमिति'-यद्येवमित्यादिना, 'यदि '-चेत्, 'एतत् '-पूर्वोक्तं, 'अर्चादिकपुण्यम्'पूजादिपुण्यम् , ' एवम् '-उक्तरीत्याऽभवत् , कथितप्रकारेणेत्यर्थः, 'सर्वात्मना'-सर्वप्रकारेण, 'स्वार्थकरं'-स्वप्रयोजन- | साधकं, 'निरुक्तं'-कथितमस्ति, 'तदा'-तर्हि, 'जनौघः'-जनसमृहः, 'एतदेव'-पूजादिपुण्यमेव, 'आद्रियतां'सत्करोतु, गृह्णीया(दा)द्रियादितिभावः, 'नामजापे'-भगवतो नाम्नो जपने, 'प्रवृत्तिः'-प्रवर्तनं, 'किं''विहिता'प्रतिपादिताऽस्ति ॥ २१॥ मूलम्-साधूच्यते साधुजन ! त्वयेदं, परं विवेकोऽत्र कृतो महद्भिः।
इमे गृहस्थाः खलु ये समर्था-स्ते द्रव्यभावार्चनकाधिकारिणः ॥ २२ ॥ १. पूजादि । २. सर्वप्रकारेण | ३. पूजनक ।
॥१३६॥