________________
मूलम्-पुनस्त्वतीयोग्रतमं यदत्र, पुण्यं च पापं समुपार्जि पुंसा ।
- अनेकपुंसामपि भुक्तये त-च्छालेरिव स्त्रैणयुजश्च चोरवत् ॥ १९ ॥ टीका-उग्रतमपुण्यपापफलदर्शयितुमाह-पुनरित्यादि 'पुनरि'ति समुच्चये, 'तु' शब्दश्चरणपूत्तौं, 'अत्र'-अस्मिन्संXI सारे, 'अतीव '-अत्यन्तम् , “ उग्रतमम् '-अतिशयेनोग्रं, ' यत्'-पुण्यम् , 'च'-पुनः पापं, 'पुंसा'-जनेन, 'समु
पार्जि'-अर्जितम, 'तत्'-उग्रतमं पुण्यं पापं च, 'अनेकपुंसामपि '-अनेकजनानामपि, “भुक्तये '-भोगाय भवति, अत्रोदाहरणमाह-क्रमशः शालेरिवेत्यादिना 'स्त्रैणयुतः'-स्त्रीसमूहयुक्तस्य, 'शालेरिव'-शालिभद्रस्येव, 'च'-पुनः, 'चोरवत् '-तस्करस्येव, पुण्यफलं स्त्रीसमूहयुक्तस्य शालिभद्रस्य भुक्तये यथाऽभूत्तथैवाऽन्यत्राऽप्यनेकपुंसां भोग्यं भवति पापफलम् च स्त्रीसमूहयुक्तस्य चोरस्य भुक्तये यथा भवति तथैवाऽन्यत्राऽप्यनेकपुंसां भोग्यं भवतीतिभावः ।। १९ ॥
मूलम्-यथैककः कश्चन राजसेवां, कृत्वा सुखी स्यात्परिवारयुक्तः।
- एकस्तथा कोऽपि नृपाऽपराधी, निहन्यतेऽसौ सपरिच्छदोऽपि ॥२०॥ टीका-उक्तविषयमेवोदाहरणेन स्पष्टयति-यथैकक इत्यादिना, 'यथा'-येन प्रकारेण, 'एककः'-एकः, 'कश्चन'कोऽपि जनः, 'राजसेवां कृत्वा'-राज्ञः सेवनं विधाय, 'परिवारयुक्तः'-कुटुम्बसमेतः, 'सुखीस्यात् '-सौख्ययुक्तो भवति,
१. शालिभद्रस्येव स्त्रीसमूहयुक्तस्य भुक्तये पुण्यफलमभूत् च पुनः चोरस्येव स्त्रीसमूहादियुक्तस्य पापफलं भुक्तये स्यात्तथेति ।
60%A4%
AA