________________
जैन
तत्वसार
एकोनविंशोsधिकारः
टीकायाम्
C555550*5453
एकस्मिन्समये, सकृदितिभावः, 'अनुत्तराय'-सर्वोत्तमाय, 'कस्मैचित् '-कस्मैचन, 'क्षत्रादये '-क्षत्रियादये जनेऽपि, जनायाऽपि, जनशब्दस्य नांतत्त्वमपि केषाश्चिन्मते विद्यते, 'स्तोकमपि '-स्वल्पमपि, 'प्रदत्तम्'-वितीर्णम् वस्तु, 'इह'अस्मिन् संसारे, 'नूनं '-निश्चयेन, 'तस्य'-दातुर्जनस्य, ' इष्टसिद्ध्यै '-अभिष्टसाधनाय भवति, एवंकृते पुनः किं भवतीत्याह-यावदित्यादिना 'तु' शब्दो विनिश्चये, ' यावत्-यत्कालपर्यन्तम् , 'अयं'-दाता, 'जीवति'-प्राणान् दधाति, 'तावत् '-तत्कालपर्यन्तम् , ' अस्य'-दातुः, 'सः'-पूर्वोक्तः, 'राजपुत्रः'-क्षत्रियः, 'सकलार्थकारी -सर्वकार्यसाधको भवति, 'ही' ति चरणपूत्तौं, 'घनं किमिति '-अत्र विषये किं वक्तव्यमित्यर्थः, 'सः'-क्षत्रियादि, 'दुष्टविपक्षजातात् '-दुष्टशत्रुसमूहात् , 'अपि'-शब्दः समुच्चये, 'मृत्यन्तकष्टात् '-मरणान्तक्लेशात् , 'अशङ्कम्'-शङ्कारहितम् , यथा स्यात्तथा निसन्देहमिति यावत् उक्तदातारम् , 'पाति'-रक्षति ।। १६-१७॥ मूलम्-एवं हि कुत्राऽवसरे किलैक-वारं महत्पुण्यमुपार्जितं यैः।
तेषां तदत्रापि परत्र लोके, सत्सौख्यसन्तानविधानहेतुः ॥१८॥ टीका-उग्रपुण्यफलविषयमेवाह-एवमित्यादिना 'ही'ति चरणपूतों, एवम् '-अनया रीत्या, 'कुत्राऽवसरे'क्वचित्समये, 'किले 'ति निश्चयेन, 'एकवारं'-सकृत् , 'यैः'-जनैः, ' महत्'-प्रभृतं पुण्यम् , 'उपार्जितम्'-प्राप्तम् , संग्रहीतमिति यावत् , 'तं'-महत्पुण्यम् , ' तेषाम् '-जनानाम् , ' अत्र-अस्मिन्संसारे, 'अपि' शब्दः समुच्चये, 'परत्र लोके'-परभवे, ' सत्सौख्यसन्तानविधानहेतुः'-श्रेष्ठसुखसन्ततिकारणनिमित्तं भवति ।। १८ ॥
॥१३५॥