________________
LOCAUGUAGAA%43554
मनुष्याणाम् मध्ये, 'सूनृती'-सत्यवादी जनः, 'अस्ति'-विद्यते, सः 'दिव्ये'-कठिनप्रतिज्ञायाम् , 'क्षणात् '-क्षणेन, शीघ्रमेवेत्यर्थः, 'परिशुद्ध्यति'-शुद्धिं प्राप्नोति ॥ १४ ॥ मूलम्-शुद्धाय सिद्धाय च साधवे तथा-ऽण्वपि प्रदत्तं सकलार्थसिद्धये ।
स्यादैहिकामुष्मिकसर्वसौख्य-निबन्धनं बन्धनहृद् भवस्य ॥१५॥ टीका-उक्तविषयमेवाह-शुद्धायेत्यादिना 'तथे' ति समुच्चये, 'शुद्धाय '-निर्दषणाय, 'सिद्धाय'-सिद्धिं गताय जनाय, 'च'-पुनः, 'साधवे'-मुनये, 'अण्वपि'-स्वल्पमपि, 'प्रदत्तम् '-वितीर्णम् , वस्तु 'सकलार्थसिद्धये स्यात् 'सर्वप्रयोजनसाधनाय भवति, तथा 'ऐहिकामुष्मिकसर्वसौख्यनिबन्धनं '-सांसारिकपारमा(भ)विकसकलसुखकारणम् भवति, तथा ' भवस्य '-संसारस्य, 'बन्धनहृत् '--बंधनहारि भवति ॥ १५ ॥ मूलम्-जनेऽपि कस्मैचिदनुत्तराय, क्षत्रादये स्तोकमपि प्रदत्तम् ।
वारे कचित्केनचिदेकवेलं, तस्येष्टसिद्ध्यै भवतीह नूनम् ॥ १६ ॥ यावत्वयं जीवति तावदस्य, स राजपुत्रः सकलार्थकारी ।
घनं हि किं दुष्टविपक्षजाता-न्मृत्यन्तकष्टादपि पात्यशङ्कम् ॥१७॥ टीका-उक्तविषयमेवाह-जनेऽपीत्यादिना 'क्वचिद्वारे'-कुत्राऽप्यवसरे, 'केनचित्'-केनापि जनेन, 'एकवेलम्'१. अल्पम् । २. अयं राजपुत्रादेर्दाता कश्चिद्वैश्यादिः । ३. रक्षति । ४. प्रस्तावादेनं राजपुत्रादये दातारं प्रति राजपुत्रादिः।