SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ नाsयं खगो वेत्ति यदस्य शीर्षे, छायां करोमीति तथेतरोऽपि । जानाति नैवं मम मस्तकेऽसौ, छायां करोतीति मतं द्वयोर्न ॥ २६ ॥ तथापि तच्छायमहात्मतोदया- दधीशतोदेति दरिद्रतापहा । अजानतोरप्यथ सिद्धिरेवं कथं स्मृतेर्याति न पापमीशितुः ॥ २७ ॥ 4 टीका - उक्तविषयमेवोदाहरणान्तरेण विस्पष्टयति - तथेत्यादिना ' तथे 'ति समुच्चये, ' इत्यसौ ' - प्रसिद्ध इत्यर्थः, 'अस्थिभक्षी ' - अस्थिभक्षणकर्ता, 'हुमायपक्षी ' - हुमायनामा पक्षी, 'प्रसिद्धिमान् ' - विख्यातोऽस्ति, तथापि सः ' सन्ततजीवरक्षी ' - निरन्तरं जीवानां रक्षकोऽस्ति, 'यदि 'ति चरणपूर्ती, 'उड्डीयमानस्य ' - उत्पततः, 'अस्य ' - हुमायपक्षिणः, 6 छाया यन्मूर्द्धगा ' - यस्य जनस्य मस्तकं प्राप्ता भवति, ' स: '- जनः, ' अत्र ' - अस्मिन्संसारे, 'नरेन्द्रो भवेत् ' - नृपः सञ्जायते, उदाहरणं विस्पष्टयति- नाऽयमित्यादिना 'यद्यपि ' ' अयं ' - पूर्वोक्तः, ' खगः ' - हुमायुनामा पक्षी, ' इति ' - एतद् न वेत्ति - न जानाति, यत् ' अस्य' - जनस्य, ' शीर्ष ' - शिरसि, अहम् छायां करोमि, 'तथे 'ति समुच्चये, ' इतरोऽपि ' - तद्भिन्नोऽपि यस्य मस्तके छाया क्रियते स जनोऽपीतिभावः, ' इत्येवम् ' - एतत् न जानाति न वेत्ति, यत् मम शीर्षेऽहं छाया करोमि यस्य शीर्षे छाया भवेत्सोऽपि न वेत्ति मम शीर्षे हुमायः छायां करोत्येवं द्वयोरप्यज्ञानेऽपि अन्यस्य नरेन्द्रत्वं सिध्यत्येवं सेवकोऽपि सम्यग् भगवत्स्वरूपं न जानाति भगवानपि नीरागत्वात्सेवकस्याऽभीष्टकृतौ नोद्यच्छत तथापि सेवकस्य स्वामिस्मरणदर्शनादिसंयोगमाहात्म्यादेवाऽभीष्टसिद्धिः स्यादिति काव्यत्रयेणाह तथास्थिभक्षीत्यादि । ९. ज्ञानं ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy