SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ जैन एकोन विंशोs तत्वसार टीकायाम् धिकारः ॥ १३८॥ 'मस्तके -शिरसि, 'असौ'-पक्षी, छायां करोति, अवेदने हेतुमाह-मतमित्यादिना यतः 'द्वयोः'-पक्षिजनयोः, 'मतम्'अभीष्टम् नास्ति, तथापि '-तदपि, ' तच्छायमहात्मतोदयात'-तस्य पक्षिण छायाया महत्वस्योदयेन, 'दरिद्रतापहा'दारिद्यनाशिनी, · अधीशतोदेति '-स्वामित्वमुदयते, अथवा 'अजानतोरपि'-अबुध्यमानयोरपि, 'एवम् '-उक्तरीत्या, 'सिद्धिः'-कार्यसफलता भवति, तर्हि, ' ईशितः'-खामिनः, भगवत इति यावत् , 'स्मृतेः'-स्मरणेन, पापं 'कथं न याति'-कुतो नाऽपगच्छति, उक्तप्रकारेण स्वामिनामजापेनाऽपि पापमपयात्येवेतिभावः ॥ २५-२७ ॥ मूलम्-अस्मिन्गते सर्वत आत्मशुद्धिः, सत्याममुष्यां परमात्मबोधः। जातेऽत्र नो कश्चन कर्मबन्धः, कर्मप्रणाशे किल मोक्षलक्ष्मीः ।। २८ ।। अस्यां हि सत्यां स्थितिरक्षया स्याद, अनन्तविज्ञानमनन्तदृष्टिः। एकरवभावत्वमनन्तवीर्य, जागर्ति सज्ज्योतिरनन्तसौख्यम् ॥ २९॥ । टीका-नामस्मृत्या पापेऽपगते फलमाह-अस्मिन्नित्यादिना 'अस्मिन्'-पूर्वोक्ते पापे, 'गते'-नष्टे सति, 'सर्वतः'-1 सर्वप्रकारेण, 'आत्मशुद्धिः'-आत्मनो नैर्मल्यं भवति, 'अमुष्याम् सत्याम्'-आत्मशुद्धौ जातायाम् , 'परमात्मबोधःपरमात्मनो ज्ञानम् भवति, 'अत्र'-अस्मिन् परमात्मबोधे, 'जाते'-समुत्पन्ने, 'कश्चन '-कोऽपि, 'कर्मवन्धः'-कर्मणां योगः, 'नो'-नैव, भवति, 'किले 'ति निश्चयेन, 'कर्मप्रणाशे'-कर्मणां नाशे सति, 'मोक्षलक्ष्मीः '-मुक्तिसम्पत् , १. पापे । २. आत्मशुद्धौ। ३. परमात्मबोधे । ४. मोक्षलक्ष्म्यां । ।॥ १३८॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy