Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 294
________________ तत्त्वसार विंशतितमोरधिकार: टीकायाम् .१३९॥ ये वैष्णवाः केचन विष्णुवादिनो, विष्णोः सकाशान्निगदन्ति मुक्तिम् । ये ब्रह्मनिष्ठाः किल ब्रह्मणस्तां, शैवाः शिवाच्छक्तिकृतां तु शाक्ताः॥२॥ तेषां न चात्मावगमो निदानं, मुक्तस्तदा नास्त्यथ निर्णयोऽयम् । यदात्मबोधाजनितैव मुक्ति-स्ततः किमेवं क्रियते विनिश्चयः ॥३॥ टीका-मुक्तिविषये प्रश्नयति-हे स्वामिनः! इत्यादिना ' हे स्वामिनः !'-हे ईशाः !, आदरार्थ बहुवचनम् , ' यूयं' 'इति'-एतद् वक्ष्यमाणम् , ' प्रवक्थ '-कथयथ, यत् आत्मज्ञानमन्तरेण, 'मुक्तिर्नास्ति'-मोक्षो न भवति, 'तहिं '-तदा, | " इतरे'-अन्ये, वैष्णवादय इतिभावः, 'अस्याः '-मुक्तः, 'हेतून् '-कारणानि, 'अन्यान्'-इतरान् , विष्णवादीनितिभावः, 'कथमाहुः ?'-कुतः कथयन्ति ?, 'तत् '-तस्मात् कारणात् , ' उक्तिः समा'-कथनं समानं, नास्ति, 'भवतः'वैष्णवादीनां च, मुक्तिहेतुविषये कथनं तुल्यं नास्तिीतिभावः, एतदेव दर्शयति-तथाहीत्यादिना ' तथाही 'ति-तद्यथेत्यर्थः, ये 'केचन'-केपि, 'विष्णुवादिनः'-विष्णुवक्तारः, जगदुत्पत्तिस्थितिप्रलयहेतुविष्णुरिति मन्तार इतिभावः 'वैष्णवाःविष्णुमन्तारः, विष्णूपासका इतिभावः, जनाः सन्ति ते 'विष्णोः सकाशात् '-विष्णुद्वारा, 'मुक्तिं निगदन्ति '-मोक्षं १. ननु यदि वैष्णवादीनां विष्णुमुख्येभ्यो मुक्तिस्तर्हि अयं यो निश्चयो भवद्भिः प्रोच्यते स निश्चयो न ऐकान्तिकः कोऽयं निर्णयः यद्यस्मात् आत्मबोधादेव मुक्तिर्जायते अयं निश्चयो न युक्तो मुक्तेर्बहुहेतुप्राप्यत्वात् तत्तस्मात् कारणात् एवं पूर्वोक्तो यो विनिश्चयः किमिति कथं क्रियते इति पृच्छन्तमाह सत्यं यदेते ॥ ॥१३९॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328