________________
तत्त्वसार
विंशतितमोरधिकार:
टीकायाम्
.१३९॥
ये वैष्णवाः केचन विष्णुवादिनो, विष्णोः सकाशान्निगदन्ति मुक्तिम् । ये ब्रह्मनिष्ठाः किल ब्रह्मणस्तां, शैवाः शिवाच्छक्तिकृतां तु शाक्ताः॥२॥ तेषां न चात्मावगमो निदानं, मुक्तस्तदा नास्त्यथ निर्णयोऽयम् ।
यदात्मबोधाजनितैव मुक्ति-स्ततः किमेवं क्रियते विनिश्चयः ॥३॥ टीका-मुक्तिविषये प्रश्नयति-हे स्वामिनः! इत्यादिना ' हे स्वामिनः !'-हे ईशाः !, आदरार्थ बहुवचनम् , ' यूयं' 'इति'-एतद् वक्ष्यमाणम् , ' प्रवक्थ '-कथयथ, यत् आत्मज्ञानमन्तरेण, 'मुक्तिर्नास्ति'-मोक्षो न भवति, 'तहिं '-तदा, | " इतरे'-अन्ये, वैष्णवादय इतिभावः, 'अस्याः '-मुक्तः, 'हेतून् '-कारणानि, 'अन्यान्'-इतरान् , विष्णवादीनितिभावः, 'कथमाहुः ?'-कुतः कथयन्ति ?, 'तत् '-तस्मात् कारणात् , ' उक्तिः समा'-कथनं समानं, नास्ति, 'भवतः'वैष्णवादीनां च, मुक्तिहेतुविषये कथनं तुल्यं नास्तिीतिभावः, एतदेव दर्शयति-तथाहीत्यादिना ' तथाही 'ति-तद्यथेत्यर्थः, ये 'केचन'-केपि, 'विष्णुवादिनः'-विष्णुवक्तारः, जगदुत्पत्तिस्थितिप्रलयहेतुविष्णुरिति मन्तार इतिभावः 'वैष्णवाःविष्णुमन्तारः, विष्णूपासका इतिभावः, जनाः सन्ति ते 'विष्णोः सकाशात् '-विष्णुद्वारा, 'मुक्तिं निगदन्ति '-मोक्षं
१. ननु यदि वैष्णवादीनां विष्णुमुख्येभ्यो मुक्तिस्तर्हि अयं यो निश्चयो भवद्भिः प्रोच्यते स निश्चयो न ऐकान्तिकः कोऽयं निर्णयः यद्यस्मात् आत्मबोधादेव मुक्तिर्जायते अयं निश्चयो न युक्तो मुक्तेर्बहुहेतुप्राप्यत्वात् तत्तस्मात् कारणात् एवं पूर्वोक्तो यो विनिश्चयः किमिति कथं क्रियते इति पृच्छन्तमाह सत्यं यदेते ॥
॥१३९॥