Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
तत्वसार टीकायाम्
विंशतितमोऽधिकारः
टीका-अन्यथा दूषणमाह-चेदित्यादिना 'चेत् '-यदि, ' इति '-एतत् मम कथनमित्यर्थः, 'न अस्ति'-यदि मम कथनं तथ्यं नास्तीतिभावः, तथा 'एभ्यः'-पूर्वोक्तेभ्यः, 'विष्णुप्रमुखेभ्यः'-विष्णवादिभ्यः मुक्तिर्भवति, 'तदा'तर्हि, 'इह'-अस्मिन्संसारे, 'वैष्णवमुख्यलोकाः'-वैष्णवादयो जनाः, 'सन्तः'-साधवः, तथा 'गृहस्थाः'-गृहिणोऽपि, 'विष्णुमुख्यानेव'-विष्णवादीनेव, 'अर्चयन्तः'-पूजयन्तः सन्तः, 'परितः'-समन्तात् , तानेव 'जपन्तु'ध्यायन्त, 'परम'-परन्तु, 'तपः'-तपश्चर्या, 'संयमयुक्तता'-संयमे तत्परता, 'क्षमा'-क्षान्तिः, 'निःसङ्गता'सङ्गराहित्यम् , सङ्गपरित्याग इतिभावः, 'रागरुषापनोदौ'-रागद्वेषयोः पृथक्करणम्, 'पञ्चेन्द्रियाणाम् '-श्रोत्रादीनाम् , 'विषयात-स्वस्वविषयेभ्यः, 'विरामः'-विरक्तिः, निवृत्तिरितिभावः, तथा 'ध्यानात्मबोधादि '-ध्यानं आत्मज्ञानादिकश्च तैः, 'कथं विधीयते -किं क्रियते ? ।। ७-८॥ मूलम्-एषैव सेवा ननु विष्णुब्रह्मा-दीनां तदेयं कुत आश्रिताऽस्ति ।
भोस्तेभ्य एवेति तदा न तेषाम्, वागस्ति हस्तोऽपि यतोऽन्यबोधः ॥९॥ टीका-अत्राऽऽशङ्कते-एपैवेत्यादिना ' नन्वि 'ति वितर्के, 'विष्णुब्रह्मादीनाम् '-विष्णुब्रह्मप्रभृतीनाम् , 'एषा'-| | पूर्वोक्ता, ' सेवैव '-सेवनमेवाऽस्ति, तपश्चर्यादिकं विष्णुब्रह्मादीनां सेवैवाऽस्ति, ननु सेवातः पृथक्कृत्यमितिभावः अस्यो- | तरमाह-तदेत्यादिना-यदि त्वमेवं वक्षि ' तदा'-तर्हि, ' इयं'-सेवा, तपश्चर्यादिरूपसेवेतिभावः, 'कुत आश्रिताऽस्ति ?'
१. शानम् ।
| ॥१४१॥
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328