________________
तत्वसार टीकायाम्
विंशतितमोऽधिकारः
टीका-अन्यथा दूषणमाह-चेदित्यादिना 'चेत् '-यदि, ' इति '-एतत् मम कथनमित्यर्थः, 'न अस्ति'-यदि मम कथनं तथ्यं नास्तीतिभावः, तथा 'एभ्यः'-पूर्वोक्तेभ्यः, 'विष्णुप्रमुखेभ्यः'-विष्णवादिभ्यः मुक्तिर्भवति, 'तदा'तर्हि, 'इह'-अस्मिन्संसारे, 'वैष्णवमुख्यलोकाः'-वैष्णवादयो जनाः, 'सन्तः'-साधवः, तथा 'गृहस्थाः'-गृहिणोऽपि, 'विष्णुमुख्यानेव'-विष्णवादीनेव, 'अर्चयन्तः'-पूजयन्तः सन्तः, 'परितः'-समन्तात् , तानेव 'जपन्तु'ध्यायन्त, 'परम'-परन्तु, 'तपः'-तपश्चर्या, 'संयमयुक्तता'-संयमे तत्परता, 'क्षमा'-क्षान्तिः, 'निःसङ्गता'सङ्गराहित्यम् , सङ्गपरित्याग इतिभावः, 'रागरुषापनोदौ'-रागद्वेषयोः पृथक्करणम्, 'पञ्चेन्द्रियाणाम् '-श्रोत्रादीनाम् , 'विषयात-स्वस्वविषयेभ्यः, 'विरामः'-विरक्तिः, निवृत्तिरितिभावः, तथा 'ध्यानात्मबोधादि '-ध्यानं आत्मज्ञानादिकश्च तैः, 'कथं विधीयते -किं क्रियते ? ।। ७-८॥ मूलम्-एषैव सेवा ननु विष्णुब्रह्मा-दीनां तदेयं कुत आश्रिताऽस्ति ।
भोस्तेभ्य एवेति तदा न तेषाम्, वागस्ति हस्तोऽपि यतोऽन्यबोधः ॥९॥ टीका-अत्राऽऽशङ्कते-एपैवेत्यादिना ' नन्वि 'ति वितर्के, 'विष्णुब्रह्मादीनाम् '-विष्णुब्रह्मप्रभृतीनाम् , 'एषा'-| | पूर्वोक्ता, ' सेवैव '-सेवनमेवाऽस्ति, तपश्चर्यादिकं विष्णुब्रह्मादीनां सेवैवाऽस्ति, ननु सेवातः पृथक्कृत्यमितिभावः अस्यो- | तरमाह-तदेत्यादिना-यदि त्वमेवं वक्षि ' तदा'-तर्हि, ' इयं'-सेवा, तपश्चर्यादिरूपसेवेतिभावः, 'कुत आश्रिताऽस्ति ?'
१. शानम् ।
| ॥१४१॥