________________
AAAAAAAAAAA
कस्मात प्रवृत्तिं गता भवति ? इति त्वं वद, वाद्याह-'भो'-इत्यामन्त्रणे, 'इयं'-तपश्चर्यादिरूपसेवा, 'तेभ्य एव'-विष्णुब्रह्मादिभ्य एव, प्रवृत्तिं गता इति शब्दो वाक्यपरिसमाप्तौ, अस्योत्तरमाह-तदेत्यादिना 'तदा'-बहि, यदि तपश्चर्यादिरूपसेवा विष्णब्रह्मादिभ्य एव प्रवृत्तिं गता तहाँतिभावः, 'तेषां'-विष्णुब्रह्मादिनां, 'वाग'-वाणी, 'नास्ति'-न विद्यते. तथा ' हस्तोऽपि '-करोऽपि नास्ति, ' यतः'-यद्वशात् , 'अन्यबोधः'-अन्यस्य ज्ञानम् भवेत् , विष्णुब्रह्मादीनां वाग्हस्ताभावादन्यबोधविरहात्तेभ्यस्तपश्चर्यादिरूपसेवा प्रवृत्तिं गतेति न वक्तुं शक्यत इतिभावः ॥९॥ मूलम्-तळ्यायियोगिभ्य इयं प्रवृत्ति-स्तत्तैः कुतोऽसौ निर्गदोपलब्धा ।।
अध्यात्मयोगादिति चेत्तदानी, तस्य प्रणेताऽभवदत्र को भोः? ॥१०॥ निरञ्जनैनिष्क्रियकैर्न चाऽयं, वक्तुं हि योग्यः खलु विष्णुमुख्यैः। सोऽध्यात्मयोगः कुत आविरासीत्, चेदादियोगिभ्य इति प्रवादः ॥११॥ तैरप्यसावात्मभवावबोधा-दध्यात्मयोगोऽवगतो न चाऽन्यतः।
अनिन्द्रियानिष्क्रियकान्निरञ्जना-नित्यैकरूपान्न तु विष्णुमुख्यात् ॥ १२ ॥ टीका-वाद्याह-तद्ध्यायियोगिभ्य इत्यादि 'तयायियोगिभ्यः'-विष्णुब्रह्मादिध्यानकर्तृयोगिजनेभ्यः, तपश्चर्यादिरूपसेवायाः, 'इयं'-पूर्वोक्तप्रवृत्तिर्भवति, अस्योत्तरमाह-तदित्यादिना यदि तद्धयायियोगिम्यस्तपश्चर्यादिरूपसेवायाः १. बद ।