________________
विंशति
जैन तत्त्वसार टीकायाम्
तमोऽ
धिकार
॥१४२॥
प्रवृत्तिर्भवति 'तत् '-तर्हि, 'तैः'-तळ्यायियोगिभिः, 'असौ'-तपश्चर्यादिरूपसेवा, 'कुत उपलब्धा ?'-कस्मात् प्राप्ता ? इति त्वं 'निगद'-वद, वाद्याह-अध्यात्मेत्यादि 'अध्यात्मयोगात् '-आत्मानमधिकृत्य प्रवृत्तो यो योगस्तस्मात् , तद्ध्यायिभिस्तपश्चर्यादिरूपसेवा प्राप्ता अस्योत्तरमाह-चेदित्यादिना 'चेत् '-यदि, त्वम् इति '-एतत् वदसि तर्हि 'भो'-इत्यामन्त्रणे, 'तदानीं '-तस्मिन्काले, ' अत्र'-अस्मिन्संसारे, ' तस्य प्रणेता'-अध्यात्मयोगस्य निर्माता, 'कोऽभवत् ?'-को जन आसीत् ? वादिहृदयस्थशङ्कामपनेतुमाह-निरञ्जनैरित्यादि 'खल्वि' ति निश्चये, 'हि' शब्दश्चरणपूत्तौं, 'निरञ्जनैः'-निर्लेपैः, 'च'-पुनः, 'निष्क्रियकैः'-क्रियारहितैः, 'विष्णुमुख्यैः '-विष्णुप्रभृतिभिः, 'अयम् '-अध्यात्मयोगः, प्रणीतः, 'वक्तुं'-कथयितुम् , 'न योग्यः'-ना)ऽस्ति, एवं च सति 'स:'-पूर्वोक्तः, 'अध्यात्मयोगः 'आत्मानमधिकृत्य प्रवृत्तो योगः, 'कुत आविरासीत् '-कस्मात् प्रादुर्बभूव, वाद्याह-आदीत्यादि 'आदियोगिभ्यः'सृष्ट्यादौ ये योगिन आसंस्तेभ्यः, 'अयम् '-अध्यात्मयोगः, आविरासीत् इति एवं प्रवादोऽस्ति, अस्योत्तरमाह-वेदित्यादिना 'चेत् '-यदि, त्वमेवं ब्रवीषि तर्हि शृणु 'तैरपि'-आदियोगिभिरपि, ' असौ'-पूर्वोक्तोऽध्यात्मयोगः, 'आत्मभवावबोधात् '-आत्मोत्पन्नज्ञानात् , ' अवगतः'-ज्ञातोऽस्ति न चाऽन्यत इति, 'तैः'-आदियोगिभिः, आत्मभावावबोधं विहायाज्यस्मादध्यात्मयोगो नाऽवगत इतिभावः, 'तु'-किन्तु, ' अनिन्द्रियात्'-इन्द्रियरहितात , 'निष्क्रियकात् '-क्रियारहितात् , 'निरञ्जनात्'-निर्लेपात् , तथा 'नित्यैकरूपात्'-सर्वदैकस्वरूपात 'विष्णुमुख्यात् '-विष्णवादेः, 'तैः'-आदिोगिभिरध्यात्मयोगो नाऽवगतोऽस्ति ॥१०-१२ ॥
॥१४२॥