Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
तत्त्वसार
एकोनविंशोsधिकार
टीकायाम्
मूलम्-इदं सुहृत् ! पुण्यभवं फलं तु, महत्ततः स्याद्बहुकालभुक्त्यै ।
प्रभूतकालस्तु विना भवान्तरं, देवादिसम्बन्धि न वर्तते यतः ॥९॥ टीका-पुण्यफलगौरवं दर्शयितुमाह-इदमित्यादिना 'तु' शब्दो भिन्नक्रमद्योतनार्थः, 'हे सुहृत् ! ' हे मित्र !, | 'इदं'-पूर्वोक्तम् , प्रसिद्धम् , 'पुण्यभवं फलं'-पुण्यादुत्पन्न फलं, 'महत्'-गुरुरस्ति, 'तत्'-तस्मात् कारणात् , | तत् 'बहुकालमुक्त्यै स्यात् '-चिरकालपर्यन्तं भोगाय भवति, प्रभूतकालः कदा लभ्यते ? इत्याह-प्रभूतेत्यादिना 'तु'
शब्दो विशेषणार्थः, ' यतः'-यस्मात् कारणात् , 'प्रभूतकालः'-बहुसमयः, फलभोगाय भूरिसमय इत्यर्थः, “देवादिसम्बन्धि भवान्तरं विना'-देवादिसम्बन्धयुक्तो योऽन्यो भवस्तमन्तरेण, 'न वर्तते '-न भवति, न लभ्यत इतिभावः ॥९॥ मूलम्-तत्पुण्यलभ्यं फलमेतदस्ति, प्रायोऽन्यजन्मान्तरयातजन्तोः।
यद्यत्र जन्मन्युपयाति पुण्य-फलं तदा मइक्षु विनाशमेव ॥१०॥ टीका-उक्तविषयमेवाह-तदित्यादिना 'तत्'-तस्मात् कारणात् , ' एतत् '-पूर्वोक्तम् , ' पुण्यलभ्यं फलं'-पुण्येन | प्रापणीयं फलं, 'प्रायः'-बहुधा, 'अन्यजन्मान्तरयातजन्तोरस्ति'-परभवप्राप्तप्राणिनो भवति, “ यदि'-चेत् , ' तत्पुण्यफलं'-पुण्येन प्राप्य फलम् , ' अत्र जन्मनि '-अस्मिन्भवे, प्राणिनः 'उपयाति'-प्राप्नोति, 'तदा'-तर्हि, तत् ' मंच'शीघ्रम्, 'एवे 'ति निश्चये, 'विनाशं'-नशनम् उपयाति ॥१०॥
१. प्राप्त ।
॥१
॥
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328