SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तत्त्वसार एकोनविंशोsधिकार टीकायाम् मूलम्-इदं सुहृत् ! पुण्यभवं फलं तु, महत्ततः स्याद्बहुकालभुक्त्यै । प्रभूतकालस्तु विना भवान्तरं, देवादिसम्बन्धि न वर्तते यतः ॥९॥ टीका-पुण्यफलगौरवं दर्शयितुमाह-इदमित्यादिना 'तु' शब्दो भिन्नक्रमद्योतनार्थः, 'हे सुहृत् ! ' हे मित्र !, | 'इदं'-पूर्वोक्तम् , प्रसिद्धम् , 'पुण्यभवं फलं'-पुण्यादुत्पन्न फलं, 'महत्'-गुरुरस्ति, 'तत्'-तस्मात् कारणात् , | तत् 'बहुकालमुक्त्यै स्यात् '-चिरकालपर्यन्तं भोगाय भवति, प्रभूतकालः कदा लभ्यते ? इत्याह-प्रभूतेत्यादिना 'तु' शब्दो विशेषणार्थः, ' यतः'-यस्मात् कारणात् , 'प्रभूतकालः'-बहुसमयः, फलभोगाय भूरिसमय इत्यर्थः, “देवादिसम्बन्धि भवान्तरं विना'-देवादिसम्बन्धयुक्तो योऽन्यो भवस्तमन्तरेण, 'न वर्तते '-न भवति, न लभ्यत इतिभावः ॥९॥ मूलम्-तत्पुण्यलभ्यं फलमेतदस्ति, प्रायोऽन्यजन्मान्तरयातजन्तोः। यद्यत्र जन्मन्युपयाति पुण्य-फलं तदा मइक्षु विनाशमेव ॥१०॥ टीका-उक्तविषयमेवाह-तदित्यादिना 'तत्'-तस्मात् कारणात् , ' एतत् '-पूर्वोक्तम् , ' पुण्यलभ्यं फलं'-पुण्येन | प्रापणीयं फलं, 'प्रायः'-बहुधा, 'अन्यजन्मान्तरयातजन्तोरस्ति'-परभवप्राप्तप्राणिनो भवति, “ यदि'-चेत् , ' तत्पुण्यफलं'-पुण्येन प्राप्य फलम् , ' अत्र जन्मनि '-अस्मिन्भवे, प्राणिनः 'उपयाति'-प्राप्नोति, 'तदा'-तर्हि, तत् ' मंच'शीघ्रम्, 'एवे 'ति निश्चये, 'विनाशं'-नशनम् उपयाति ॥१०॥ १. प्राप्त । ॥१ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy