________________
ROC%
E0%AAMA
मूलम्-यतो मनुष्यायुरतीव तुच्छं, मानुष्यकं देहमिदं शरारु।
तभुज्यमानं मरणान्तरागमात्, सन्त्रुट्यतीदं पृथुपुण्यजं फलम् ॥ ११ ॥ टीका-तस्य मंक्षु विनाशित्वे हेतुमाह-यत इत्यादिना ' यतः'-यस्मात् कारणात् , ' मनुष्यायुः'-मनुष्यसम्बन्धि जीवनकालः, 'अतीवतुच्छे-अत्यन्तं स्वल्पमस्ति, तथा 'इदं -प्रसिद्धम् , 'मानुष्यकं देहं'-मनुष्यसम्बन्धि शरीरं, 'शरारुविनश्वरमस्ति, 'तत्'-तस्मात् कारणात्, ‘भुज्यमानं '-भोगं नीयमानम् फलम् , 'मरणान्तरागमात् '-मृत्योर्मध्ये समागमात् , ' सन्त्रुटयति'-छिद्यते, परन्तु ' इदं'-पूर्वोक्तम् , प्रसिद्धं वा, पुण्यजं फलं, 'पृथु'-विस्तीर्णमस्ति, पुण्य- | भावि फलं चिरमुपभुज्यत इतिभावः ॥ ११ ॥ मूलम्-सुखान्तरा दुःखभवो महीयो-दुःखाय यत्स्यादतिभीतिदा मृतिः॥
सा पुण्यजेऽस्मिन्सति नैव युक्ता, तदन्यजन्मे फलमेतदेति भोः॥१२॥ टीका-पुण्यफलमहत्त्वमेवाह-सुखान्तरेत्यादिना 'सुखान्तरा'-सुखमध्ये, 'दुःखभवः'-दुःखोत्पत्तिः, 'महीयः दुःखाय'-महत्तरक्लेशाय भवति, सुखभोगकालमध्ये दुःखोत्पत्तिरतीव क्लेशदायिनी भवतीतिभावः, अत्र हेतुमाह-यदित्यादिना ' यत्'-यस्मात् कारणात् , 'मृतिरतिभीतिदा स्यात् '-मरणम् अत्यन्तं भयदं भवति, 'सा'-मृतिः, 'अस्मिन् पुण्यजे सति'-पुण्योत्पन्नेऽस्मिन् फले विद्यमाने सति, 'एवे 'ति निश्चये, 'युक्ता'-योग्या, नास्ति, पुण्यजफलभोगकाले मृत्योराग
१. विनश्वरम् । २. मध्ये । ३. उत्पत्तिः । ४. महत्तर । ५. फले ।