Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 283
________________ ROC% E0%AAMA मूलम्-यतो मनुष्यायुरतीव तुच्छं, मानुष्यकं देहमिदं शरारु। तभुज्यमानं मरणान्तरागमात्, सन्त्रुट्यतीदं पृथुपुण्यजं फलम् ॥ ११ ॥ टीका-तस्य मंक्षु विनाशित्वे हेतुमाह-यत इत्यादिना ' यतः'-यस्मात् कारणात् , ' मनुष्यायुः'-मनुष्यसम्बन्धि जीवनकालः, 'अतीवतुच्छे-अत्यन्तं स्वल्पमस्ति, तथा 'इदं -प्रसिद्धम् , 'मानुष्यकं देहं'-मनुष्यसम्बन्धि शरीरं, 'शरारुविनश्वरमस्ति, 'तत्'-तस्मात् कारणात्, ‘भुज्यमानं '-भोगं नीयमानम् फलम् , 'मरणान्तरागमात् '-मृत्योर्मध्ये समागमात् , ' सन्त्रुटयति'-छिद्यते, परन्तु ' इदं'-पूर्वोक्तम् , प्रसिद्धं वा, पुण्यजं फलं, 'पृथु'-विस्तीर्णमस्ति, पुण्य- | भावि फलं चिरमुपभुज्यत इतिभावः ॥ ११ ॥ मूलम्-सुखान्तरा दुःखभवो महीयो-दुःखाय यत्स्यादतिभीतिदा मृतिः॥ सा पुण्यजेऽस्मिन्सति नैव युक्ता, तदन्यजन्मे फलमेतदेति भोः॥१२॥ टीका-पुण्यफलमहत्त्वमेवाह-सुखान्तरेत्यादिना 'सुखान्तरा'-सुखमध्ये, 'दुःखभवः'-दुःखोत्पत्तिः, 'महीयः दुःखाय'-महत्तरक्लेशाय भवति, सुखभोगकालमध्ये दुःखोत्पत्तिरतीव क्लेशदायिनी भवतीतिभावः, अत्र हेतुमाह-यदित्यादिना ' यत्'-यस्मात् कारणात् , 'मृतिरतिभीतिदा स्यात् '-मरणम् अत्यन्तं भयदं भवति, 'सा'-मृतिः, 'अस्मिन् पुण्यजे सति'-पुण्योत्पन्नेऽस्मिन् फले विद्यमाने सति, 'एवे 'ति निश्चये, 'युक्ता'-योग्या, नास्ति, पुण्यजफलभोगकाले मृत्योराग १. विनश्वरम् । २. मध्ये । ३. उत्पत्तिः । ४. महत्तर । ५. फले ।

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328