Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
संप्रतिनृपतिचरित्रम् ॥
2. गुरवः क्वचित् । भव्यं भक्ष्यं तयोस्तत्त-द्यच्छन्ति प्रतिबन्धतः ॥२२५॥ क्षुल्लकाभ्यां ततोऽचिन्ति विभात्येतन्न सुन्दरम् । यतो गुरुषु + सीदत्स, का गतिर्नो भविष्यति ॥२२६।। कुलं येन सनाथं स, पुमान् यत्नेन रक्ष्यते । तारकाः स्युः किमाधारा-स्तुम्बे नाशमुपेयुषि
॥२२७।। चलद्दन्ते गतमदे, जराजर्जरितेऽपि च । सनाथं सर्वथा नूनं, यूयं यूथपतौ सति ॥२२८॥ तत्पूज्यैर्नव्यसूरीणां, दीयमानस्तदा
निशि । श्रुतोऽस्त्यञ्जनयोगो यः, कुर्वस्तमिह संप्रति ॥२२९॥ इत्यालोच्य कृतस्ताभ्यां, योगः सिद्धश्च तेन च । भूत्वाऽदृश्यौ गतौ - चन्द्रगुप्तेन सह जेमितुम् ॥२३०॥ तमालोक्य च भुञ्जानं, पार्श्वयोरुपविश्य च । भुक्त्वा यातौ तथैवाथ, भुञ्जाते ते दिने दिने ॥२३॥
राजाऽन्यदिनमानेन, भक्ते भुक्तोद्धते सति । अजीर्णभयतो वैद्यैः, सपद्युत्थाप्यते स्म सः॥२३२।। एवं चैकस्य भोज्या, भुज्यमानैर्जनैस्त्रिभिः । अतृप्यन् कृशतां याति, राजा वक्ति ह्रिया न च ॥२३३।। कृष्णपक्षेन्दुवच्चन्द्र-गुप्तं काय॑जुषं ततः । पप्रच्छ चणिसूर्वत्स !, द:काल: किं तवाऽपि हि ॥२३४॥ स ऊचे नाऽऽर्य ! तृप्यामि, चाणिक्योऽचिन्तयत्ततः । अव्यक्तः कोऽपि सिद्धोऽस्याऽऽहारं हरति निश्चितम् ॥२३५।। द्वितीयेऽन्यैष्टिकञ्चूर्णः, कीर्णो भोजनमण्डपे । द्वयोर्बालकयोस्तत्र, पदपङिक्तस्ततोऽभवत् ॥२३६।। निश्चिकाय तया मन्त्री, नूनं सिद्धाञ्जनाविमौ । द्वारं बध्वा ततस्तत्र, सद्यो धूममकारयत् ॥२३७॥ धूमेन गलतोरक्ष्णोरश्रुभिः क्षालितेऽञ्जने । दृष्टौ नृपस्य पार्श्वस्थौ, भुञ्जानौ क्षुल्लकावुभौ ॥२३८॥ आभ्यां विटालितोऽस्मीति, राजाऽभूद् दुर्मना मनाक् । मा भूच्छासनहीलेति, तमेनं स्माह धीसखः १. मोहात् ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152