Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वलयमुत्तारयत ? तत एकैकस्मिन् वलये उत्तारिते राज्ञो मनाक् सुखं बभूव एवं क्रमात् सर्वेषु वलयेषूत्तारितेषु राजा विशेषं सुखमन्वभवत्, एवं ताभिरेकैकमेव वलयं मंगलार्थमेव निजहस्तेषु स्थापितं तदा राज्ञा पृष्टं, किमधुना राज्ञ्यश्चंदनं न घर्षयंति ? यत् सांप्रतं तासां वलयशब्दो न श्रूयते तदा मंत्रिणो नृपाय वलयोत्तारणस्वरूपं जगुः . तत् श्रुत्वा संजातवैराग्यो राजा दध्यौ, अहो ! भूरिसंयोग: संसारे दुःखायैव भवति, यथा भूरिभि: कंकणशब्दैर्दुःखमभूत्, न तथा स्तोकैरेव तै:, एवमेकत्वे महत्सुखं, यतः-कंकणैर्भूरिभिर्दुःखं । स्वल्पैः स्वल्पतरैः सुखं ॥ यावद स्यैव दृष्टांता-देकाकित्वे महासुखं ॥ १ ॥ यथा यथा महत्तंत्रं । विस्तरश्च यथा यथा ॥ तथा तथा महद्दुःखं । सुखं नैव तथा तथा ॥ २ ॥ विस्तराः सर्वे । संक्षेपास्तु सुखावहाः ॥ परार्थं विस्तराः सर्वे । त्यागमात्महितं विदुः ॥ ३ ॥ अथ यदायं मदीयो दाहज्वरः प्रशमं यास्यति, तदा मयावश्यं दीक्षा ग्राह्या. इति ध्यात्वा यावत्स नमिनृपः सुप्तस्तावत्तस्य दाहज्वरः प्रशशाम. अथ प्रातर्वाद्यनादैर्जागरितो भूपो दध्यौ, अहो ! अद्य मया स्वप्ने शैलराजोपम ऐरावणकुंभी द्दष्टः, स च मदीयं रोगं दूरीचकार. यतः-देवता यतयो गावः । पितरो लिंगिनो नृपाः ॥ यद्वदंति नरं स्वप्ने । तत्तथैव भविष्यति ॥ १ ॥ एवं तं ऐरावणं पुनः पुनर्ध्यायतोऽस्य नमिमुनेर्जातिस्मृतिरभूत्, यथा पूर्वभवे मया श्रामण्यं पालितं, ततः पंचत्वं प्राप्य
॥ ८ ॥

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152