________________
वलयमुत्तारयत ? तत एकैकस्मिन् वलये उत्तारिते राज्ञो मनाक् सुखं बभूव एवं क्रमात् सर्वेषु वलयेषूत्तारितेषु राजा विशेषं सुखमन्वभवत्, एवं ताभिरेकैकमेव वलयं मंगलार्थमेव निजहस्तेषु स्थापितं तदा राज्ञा पृष्टं, किमधुना राज्ञ्यश्चंदनं न घर्षयंति ? यत् सांप्रतं तासां वलयशब्दो न श्रूयते तदा मंत्रिणो नृपाय वलयोत्तारणस्वरूपं जगुः . तत् श्रुत्वा संजातवैराग्यो राजा दध्यौ, अहो ! भूरिसंयोग: संसारे दुःखायैव भवति, यथा भूरिभि: कंकणशब्दैर्दुःखमभूत्, न तथा स्तोकैरेव तै:, एवमेकत्वे महत्सुखं, यतः-कंकणैर्भूरिभिर्दुःखं । स्वल्पैः स्वल्पतरैः सुखं ॥ यावद स्यैव दृष्टांता-देकाकित्वे महासुखं ॥ १ ॥ यथा यथा महत्तंत्रं । विस्तरश्च यथा यथा ॥ तथा तथा महद्दुःखं । सुखं नैव तथा तथा ॥ २ ॥ विस्तराः सर्वे । संक्षेपास्तु सुखावहाः ॥ परार्थं विस्तराः सर्वे । त्यागमात्महितं विदुः ॥ ३ ॥ अथ यदायं मदीयो दाहज्वरः प्रशमं यास्यति, तदा मयावश्यं दीक्षा ग्राह्या. इति ध्यात्वा यावत्स नमिनृपः सुप्तस्तावत्तस्य दाहज्वरः प्रशशाम. अथ प्रातर्वाद्यनादैर्जागरितो भूपो दध्यौ, अहो ! अद्य मया स्वप्ने शैलराजोपम ऐरावणकुंभी द्दष्टः, स च मदीयं रोगं दूरीचकार. यतः-देवता यतयो गावः । पितरो लिंगिनो नृपाः ॥ यद्वदंति नरं स्वप्ने । तत्तथैव भविष्यति ॥ १ ॥ एवं तं ऐरावणं पुनः पुनर्ध्यायतोऽस्य नमिमुनेर्जातिस्मृतिरभूत्, यथा पूर्वभवे मया श्रामण्यं पालितं, ततः पंचत्वं प्राप्य
॥ ८ ॥