________________
मदन० चरित्रम्
तत् श्रुत्वोत्सुकश्चंद्रयशा युद्धं मुक्त्वा निजभ्रातुर्मिलनाय चचाल एवं निजं भ्रातरमागच्छंतं श्रुत्वा स नमिनृपोऽपि मानं मुक्त्वा सन्मुखमुपेत्य ज्येष्ठभ्रातुः पादयोः प्रणनाम ज्येष्ठभ्रातापि तमुत्थाप्य सस्वजे. ततस्ताभ्यां द्वाभ्यां भ्रातृभ्यां मिलित्वा सस्नेहं सा साध्वी वंदिता. ततश्चंद्रयशा नृपो नमिं प्रति जमौ, हे भ्रातः ! पितुर्मरणादनुराज्यभारधरणपुत्राऽभावादियत्कालं मया राज्यं कृतं, त्वं तु भ्राता मयेयत्कालं न ज्ञातः. अधुनैवानया साध्व्या मात्रा त्वं मम भ्रातेति ज्ञापितः, अतः परं च मम राज्येन कार्यं नास्ति, अहं त्वग्रेऽपि राज्यं त्यक्तुकाम आसं, तव च राज्यभारधारणे योग्यतास्ति. तत् श्रुत्वा नमिरप्याह, हे भ्रात:! मह्यमपि राज्यं न रोचते, अतोऽहमपि संयमग्रहणमिच्छामि. चंद्रयशा: प्राह, यदि ज्येष्ठभ्राता लघुभ्रात्रे राज्यं दत्त्वा दीक्षां गृह्णाति, तदेव युक्तमुच्यते, एवं निजलघुभ्रातरं नमिं पर्यवसाप्य स चंद्रयशा नृपो महोत्सवपूर्वकं व्रतं जग्राह . अथ स प्रतापी नमिराजा न्यायेन राज्यं करोति स्म एवं षण्मासानंतरमेकदा तस्य नमिनृपस्य दाहज्वरे जायमाने वैद्याश्चिकित्सां चक्रुः, परं तस्य मनागपि गुणो नाभवत् तदा नृपस्य दाहज्वरशांतये सर्वा राज्ञ्यो मिलित्वा चंदनं धर्षयामासुः तदा तासां वाहुवलयझणत्कारश्रवणतो नमेर्नृपस्य वेदना प्रत्युत वृद्धिं प्राप्ता तदा राज्ञा पृष्टं, कोऽयं दारुणो रवः श्रूयते ? तदा सेवकैस्तस्य चंदनघर्षणस्वरूपं प्रोक्तं राज्ञादिष्टमेतासां पंचशतप्रियाणां हस्तेभ्य एकैकं
XXXXXXXX