SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भ्रातरावज्ञानाद्युद्धं कुर्वाणौ नरकगामिनौ भविष्यतः, इति ध्यात्वा सा सुव्रताचर्या गणिनी समापृच्छ्य तयोः प्रतिबोधार्थं साध्वीपरिवारयुता चचाल. प्रथमं सा नमिनृपपार्श्वे समागमत्, तेदा नमिनृपेणाभ्युत्थानपूर्वकं साध्वी वंदिता, तत: साध्वी तस्मै धर्मोपदेशं ददौ, यथा-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुए सद्धा । संजमंमि व वीरियं ॥१॥ तत: सा साध्वी रहसि नमेरो इदमब्रवीत्-राजन्नस्मिन् भवे दुःख-दायके राज्यत: खलु ॥ गच्छति नरके घोरे। जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्ठभ्रात्रा समं युद्धं । कर्तुं न युज्यते तव ॥ नमिः प्राह कथं जयेष्ठ-भ्रातायं विद्यते मम ॥ २ ॥ ततः साध्व्याऽनेन चंद्रयशसा सह तस्य सहोदरभवनसंबंधः प्रोक्तः, तत: प्रत्ययार्थं राज्ञा पुष्पमाला पृष्टा, हे मातः! अहं कस्याः पुत्रः? तदा पुष्पमालया प्रोक्तं, नूनं त्वमस्या मदनरेखाया एव पुत्रोऽसि, इत्युक्त्वा तया तस्मै मुद्रायुक्तं कंबलं दर्शितं. एवं निजजनन्या साध्ळ्या निवारितोऽपि स नमिनोऽभिमानाभिभूतो युद्धान्न विरराम. ततः सा साध्वी चंद्रयशस: पार्श्वे गत्वा तस्मै धर्मोपदेशं ददौ. तदा चंद्रयशा जगौ, भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागा: ? तदा साध्व्या स्वकीयद्वितीयएत्रोत्पत्तिसंबंधस्तस्मै निवेदितः. ततो सजा जगौ, हे मात: ! सांप्रतं स मे भ्राता कुत्रास्ति ? साव्या प्रोक्तं, येनाधुना तव पुरं सैन्येन वेष्टितमस्ति, स एव तव भ्रातास्ति. ॥ ७ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy