________________
मदन० चरित्रम्
नमिराजा तं गजमानयितुं चंद्रयशोनृपपार्श्वे निजं दूतं प्राहिगोत्. दूतोऽपि तत्र गत्वा चंद्रयशोभूपं प्राह, मिथिलास्वामी नमिराजात्र समागतं स्वं गजं याचते. तत् श्रुत्वा चंद्रयशा जगौ, यद्येवं स्वयमिहागतं निजं गजं तव स्वामी मह्यं याचते, तर्हि नूनं स नीतिशास्त्रेऽज्ञातो दृश्यते, यत:-न श्री:कुलक्रमायाता । शासने लिखितापि वा । खड्गेनाक्रम्य भुंजीत ।
वीरभोज्या वसुंधरा ॥१॥ तत् श्रुत्वा स दूतोऽवदत्, यदि त्वया गजो नार्पयिष्यते, तदा मम स्वामी संग्रामे त्वां हत्वा - निजं गजं ग्रहीष्यतिं. ततो रुष्टो नृपस्तं दूतं सभातो बहिर्निष्कासयामास, अथ स दूतोऽपि नमिनृपस्य पार्श्वे गत्वा -
सर्वं वृत्तान्तं व्यजिज्ञपत्. ततः कुपितः स नमिभूपोऽपि निजसर्वसैन्ययुतो भेरीभांकारैर्दिगंतराणि गर्जयन् सुदर्शनपुप्रति चचाल, एवं तं नमिनृपं भूरिसैन्ययुतमागच्छंतमाकर्ण्य यावच्चंद्रयशा नृपो युद्धाय तत्सन्मुखं यातुमैच्छत्, तावत् । शकुनैर्निषिद्धो मंत्रिभिरिति विज्ञप्तश्च, हे स्वामिन् ! अधुनास्माभिर्बहिर्निर्गत्य युद्धं कुर्तुं न युज्यते, अतो गोपुराणि पिधाय मध्यस्थैरेवास्माभिर्युद्धं कर्तव्यं. ततो वैरिबलं परीक्ष्य पश्चाबहिनि:सृत्य युद्धं करिष्यामः. एवं मंत्रिभिरुक्तः स राजा तदुक्तं । चकार. यत:-चित्तज्ञः शीलसंपन्नोः। वाग्मी दक्षः प्रियंवदः ॥ समयज्ञश्च स्मृतिमान् । मंत्री स्यात्सप्तभिर्गुणैः ॥१॥ अथ
स नमिराजापि महता निजसैन्येन परितस्तन्नगरं वेष्टयामास. अथ तयोर्द्वयोर्भूपयोर्मियो महायुद्धे जायमाने जीवसंहारं * विज्ञाय द्वयोः सहोदरयोश्च कलिं वीक्ष्य तया सुव्रतार्यया ध्यातं, अरेरे ! एनमसारं संसारं धिगस्तु, यत एतौ द्वावपि