________________
च ॥१॥ मयैष तनयो जातो-ऽनंतशो भवभ्रांतित: ॥ जनिताहं तथानंत-वारांश्चानेन भूतले ॥२॥ अथैतासां साध्वीनां चरणा एव मम शरणं, इत्युक्त्वा मदनरेखया विसृष्टः स सुरो देवलोकं ययौ, तत: सा साध्वीनां पार्श्वे दीक्षां गृहीत्वा संजातसुव्रताहा नानाविधतपांसि तनुतेतरां. इतस्तस्य भूपस्य गृहे तस्य बालस्यागमनप्रभावेण सर्वेऽपि रिपवस्तं भूप समागत्य नताः, ततस्तेन पद्मरथभूपेन तस्य नमिरिति नाम चक्रे. अथ ततो राज्ञा क्रमाद्राजकुलजाताभिः स्वरूपपराभूतामरीभिरष्टोत्तरसहस्रकन्याभिः सह तस्य विवाहो विहितः. ततो राजा तं राज्ययोग्यं ज्ञात्वा राज्ये न्यस्य श्रीज्ञानसागरसूरिपार्श्वे प्रव्रज्यां जग्राह, तीव्र तपश्च तप्त्वा लब्धकेवलज्ञान: स पद्मरथो राजा शिवं ययौ. अथ नतानेकक्षमापालमौलि: स नमिराजा राज्यं कुर्वाणः शक्रसमो रराज. इतश्च यस्यां रात्रौ स मणिरथनृपो निजं लघुभ्रातरं युगबाहुं जघान, तस्यामेव निशि सर्पदष्टः स मृत्वा चतुर्थ्यां नरकावनौ गत:. तत: सचिवादिभिर्मिलित्वा द्वयोरपि तयोः सोदरयोरेकस्मिन्नेव स्थानेऽग्निसंस्कारं कृत्वा युगबाहुसुतश्चंद्रयशा राज्येऽभिषिक्तः, अथ तस्य नमिभूपतेर्मेदिनी पालयतोऽन्येद्युः प्रधानः श्वेतहस्ती आलानस्तंभमुन्मूल्य विंध्याटवीं प्रत्यचालीत्. क्रीडार्थमरण्ये गतेन चंद्रयशसा नृपेण स गजो द्दष्टः, तदैरावतगजसहोदरं तं गजं निजाधोरणैर्बलाद् बध्ध्वा स स्वपुरमानयामास. चरपुरुषैस्तं वृत्तांतं ज्ञात्वा