________________
मदन० चरित्रम्
इत्यादि मुनिना प्रोक्तं, जिनधर्मं सुभावयन् || सामर्थ्यप्रवलं विद्याधरः क्षमयते सुरं ॥४॥ ततः स सुरस्तां मदनरेखां राज्ञीं प्रत्यवदत्, भो उपकारिणि ! सुलोचने ! अथ किं तेऽभीष्टं ददामि ? तदा सा जगौ, भो देव ! तत्त्वतो यूयं ममाभीष्टं कर्तुं न क्षमाः, यतः सर्वेऽपि गीर्वाणाः सदा ह्यविरता भवंति. किंच जन्मजरामृत्युरोगशोकार्तिवर्जितं निरुपाधिकं ध्रुवसौख्योपेतं मोक्षमेवाहमभिलषामि . तथापि भो सुरोत्तम ! त्वं मां शीघ्रं मिथिलायां पुरि नयस्व ! यथा तत्र पुत्रमुखं प्रेक्ष्य पश्चात्संयमं लास्यामि ततस्तेन सुरेण सा मिथिलायां नीता. तत्र नगर्यां श्रीमल्लिनाथस्य जन्मदीक्षाकेवलज्ञानाख्यानि कल्याणकानि जातानि संति तत्र प्रथमं तौ द्वावपि जिनप्रासादेषु जिनबिंबानि नमतः स्म ततस्तौ साध्वीनामुपाश्रये गत्वा ताः प्रणेमतुः तदा प्रवर्तिन्या साध्व्या तयोर्धर्मोपदेशो दत्तो यथा - इदं मनुष्यजन्म लब्ध्वा जनैः क्षणमपि प्रमादो न विधेयः, यतः-पुरुषः कुरुते पापं । बंधुनिमित्तं वपुर्निमित्तं च ॥ वेदयते तत्सर्वं । नरकादौ पुनरसावेकः ॥१॥ यत्नेन पापानि समाचरंति । धर्मं प्रसंगादपि नाचरंति ॥ आश्चर्यमेतद्धि मनुष्यलोके । क्षीरं परित्यज्य विषं पिबंति ॥२॥ इत्यादिधर्मोपदेशांते स सुरो मदनरेखां प्रति प्राह, भो सुलोचने ! एहि अथावां राजकुले यावः, तत्र च तवांगजं दर्शयामि तदा मदनरेखावदत्, भो देव ! अथ भवभ्रमणहेतुना पुत्रस्नेहेन सृतं यतो गुरूणां पार्श्वे मया संसारस्य सर्वाप्यसारता श्रुतास्ति, यतः - संसारे भ्रमतां प्राण- भाजां पतिसुतादयः ॥ संबंधा भूरिशो भूताः । भविष्यंति भवंति