________________
प्रदक्षिणां दत्त्वा तस्या एव पादयोः प्रणनाम पश्चात् स सुरस्तं मुनिं वंदते स्म, ततश्च स सुरो मुनेरग्रे धर्म श्रोतुं समुपविष्टः. अथैवं तस्य सुरस्य विपरीतवंदनं निरीक्ष्य खगाधिप: स मणिप्रभस्तं सुरं नत्वा प्राह, भो देव ! युष्माद्दशा देवा अपि यदा नीतिमार्गमुलंघयंति, तदास्मादृशां मनुष्याणां किं दूषणं ? त्वयैनं चतुर्ज्ञानधरं चारणमुनिं मुक्त्वा प्रथमं कथमियं मानुषीमात्रा नमस्कृता ? तत् श्रुत्वा स सुरो यावत्किंचिद्वदति, तावत्स मुनिरेवाचष्ट, भो खेचर ! त्वमेवं मा ब्रूहि ? नैवायं सुरस्तथाविधं तवौपालंभमर्हति. त्वमस्य देवस्य वंदनहेतुं शृणु !? यदास्या: मदनरेखाया भर्ता युगवाहुः अस्यामेवासक्तमानसेन ज्येष्ठभ्रात्रा मणिरथेन खङ्गप्रहारेण हतस्तदा तत्प्रांतसमयेऽनया स्त्रिया स स्वभर्ता मधुरैर्वचनैस्तथाराधनया नियमितो यथा जैनेंद्रं ध्यानं ध्यायन् स युगबाहुः पंचत्वं प्राप्य पंचमे कल्पे इंद्रसामानिक: सुरोऽभूत्. तत्र च स देवोऽवधिज्ञानेनेमांमदनरेखांस्वधर्मदात्रीं गुर्विणीं मन्वानोत्रागम्य प्रथममिमामनमत्. एवं धर्मदायिन्या अस्या: कोटिशः प्रणामैरप्ययं देवो नानृणो भवेत् यत:-यो चेन स्थाप्यते धर्मे । यतिना गृहिणापि वा ॥ स एव तस्य सध्धर्म-दाता धर्मगुरुर्भवेत् ॥१॥ किंच-सम्यक्त्वं ददता दत्तं । शिवसौख्यं सनातनं ॥ एतद्दानोपकारस्योपकारः कोऽपि नो समः ॥२॥ सम्मत्तदायगाणं । दुप्पडियारं भवेसु बहुएसु ॥ सव्वगुणमेलियाहिं वि । उवयारसहस्स कोडीहिं ॥३॥
॥
५
॥