________________
मदन० चरित्रम्
8888888
हरति ॥३॥ कोऽहं कस्मिन् कथमायातः । को मे जननी को मे तातः ॥ इति परिभावयतः संसारः । सर्वोऽयं खलु स्वप्नविचारः ॥४॥ ओतुः पयः पश्यति नैव दंडं । कीरोऽपि शालीन्न च लोष्टुखंडं ॥ काकः पलं नो चलसिंहतुंडं । जंतुस्तथा शं न यमं प्रचंडं ॥५॥ एवंविधं निजजनकंमुनेरुपदेशमाकर्ण्य मणिप्रभ उत्थाय तां मदनरेखां राज्ञ क्षमयित्वाऽवदत्, भो सुंदरि ! अद्यप्रभृति त्वं मम जामिरसि, अध तुभ्यं किमुपकारं करोमि ? तया प्रोक्तं भो बांधव ! तीर्थवंदनं कारयता त्वया मह्यमतुल्य उपकारः कृतोऽस्ति, अथ त्वं मम परमबांधवोऽसि ततस्तया स्वपुत्रस्वरूपं पृष्टं स मुनिः प्राह, प्राक् द्वौ राजपुत्रावभूतां, मिथश्च तौ परमप्रीतिभाजावास्तां क्रमात्तौ द्वावपि पुण्यविशेषान्मृत्वा सुरौ जातौ, तयोर्मध्यादेकः स्वर्गाच्च्युतः पद्मरथाभिधो राजाऽभूत्, द्वितीयश्च ते सुतोऽजनि . अथ वनमध्येऽश्वापहृतेन तेन पद्मरथनृपेण स तवांगजो गृहीतः, स्वपत्न्याः पुष्पमालायाश्च समर्पितः पूर्वभवस्नेहात्तस्य तव सूनोः स पद्मरथनृपो जन्मोत्सवादि कारयामास, अतस्तव सुतस्तत्र सुखेन वर्धमानोऽस्ति. अथैवं तस्मिन् मुनौ जल्पति, तंत्राकस्माज्जितसूर्यशशिप्रभं, रत्नौघनिर्मितं, क्वणत्किंकिणीगणालंकृतं विमानमेकं गगनांगणादवतीर्णं ततो विमानान्निशा प्रकाशितदिग्मंडलश्चलत्कुंडलाद्यनेकाभूषणभूषितांगो गंधर्वदेवैर्गीयमानगुणः कश्चिद्देवः समुत्तीर्य प्रथमं तस्या मदनरेखायाः