________________
पतिताहं कथं निजशीलरक्षणं करिष्ये ? कामपीडितोऽयं खेचर: किमपि कृत्याकृत्यं न ज्ञास्यति. इदानीं तु मया केनापि X - च्छलेन कालविलंब एव करणीयः. इति विचिंत्य सा तं जगाद, भो खेचराधीश ! प्रथमं त्वं मा नंदीश्वरद्वीपं नय ?
तत्र देवान्नत्वा पश्चादहं त्वदुक्तं करिष्ये. इति श्रुत्वा तुष्टेन तेन खगेन सा क्षणानंदीश्वरद्वीपं नीता, तत्र च सैवं शाश्वतानि जिनचैत्यानि वंदते स्म, यथा-चत्वारोंचनशैलेषु । दधिमुखेषु षोडश ॥ द्वात्रिंशच्च रतिकरा-भिधानेषु जिनालयाः ॥१॥ योजनानां शतं दीर्घा: । पंचाशद्विस्तृताश्च ते ॥ द्विसप्तत्युच्छ्रिताः सर्वे । द्विपंचाशद्भवत्यमी ॥ २ ॥ एवं तत्र, ऋषभचंद्राननवारिषेणवर्धमानाभिधान् शाश्वतजिनान्नत्वा सा मदनरेखा तेन खेचरेण सह तत्र स्थितं मणिचूडमुनीश्वरनमस्कृत्य यथोचितस्थाने विद्याधरसभायां धर्मोपदेशं श्रोतुं समुपविष्टा. तदा स ज्ञानवान् मणिचूडमुनिश्वरोऽपि निजपुत्रहृदयविचारं विज्ञाय तदुचितां देशनां ददौ, यथा भो भो भव्यलोका: ! कुमार्गः सर्वथापि न सेव्य: परस्त्रीगमनादिकुमार्गसेवया नूनं नराणां श्वश्रुपात एव भवति, यत:-परस्त्रीगतिवांछात: । पुरुषो नरकं व्रजेत् ॥ अन्यनृसेवया । नारी । गामिनी नरके भवेत् ॥१॥ दास: पराभवकाराः । बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशाः ॥२॥ पुत्रो मेधाता मे । स्वजनो मे गृहकलत्रवर्गो मे ॥ इति कृतमेमेशब्दं । पशुमिव मृत्युर्जन
॥