________________
मदन० चरित्रम्
मुक्त्वाहं वस्त्रप्रक्षालनार्थं यावत्सरसि प्रविष्टा, तावज्जलहस्तिना गगनतले उल्लालिता, इतस्त्वयाकाशादेवाहं गृहीता. अथ स बालो मां विना तत्रैकाकी स्थितो मृत्यु यास्यति, अतो मयि त्वं प्रसादं विधाय तत्र नय । अथवा तं बालमत्रानय । तत् श्रुत्वा स खग: प्राह, भो सुंदर ! यदि त्वं मां निजभर्तृत्वेनांगीकरोषि, तदाहं तव किंकरो भवामि. इति श्रुत्वा तया मदनरेखया ध्यातं, अथास्मिन्नवसरे मया विलंबं विना शीलं पालयितुं नैव शक्यते, इति ध्यात्वा मदनरेखा जगौ, प्रथमं त्वं मे तं पुत्रमत्र समानय । तदा स खगोऽवदत्, हे सुंदरि ! अहं वैताढ्यपर्वतस्थरत्नावहपुरेशस्य मणिचूडविद्याधरस्य मणिप्रभाभिध: पुत्रोऽस्मि. वैराग्यवासितहदयो मम स पिता मां राज्येऽभिषिच्य चारणर्षिसंनिधौ संयममग्रहीत्. स मम पिता विहरन्नत्रागत्यातीतवासरे नंदीश्वरद्वीपे देवानंतुं गतोऽस्ति. तमनुगम्य पश्चादागच्छता मया त्वं दृष्टा, गृहीता च. अथ त्वं मां निजपतित्वेन स्वीकृत्य सर्वखेचरीणां स्वामिनी भव । किंच प्रज्ञप्तिविद्यया मया तव पुत्रस्यापि वृत्ताँतो ज्ञातोऽस्ति, मिथिलापुरपतिना तुरगापहतेन पद्मरथभूपेन स तव पुत्रो वने दष्टः, स्वपुरे समानीय च निजप्रियायाः पुष्पमालाया: समर्पितोऽस्ति, सा च तमधुना स्वपुत्रवत् पालयति. ततस्त्वं प्रसन्नीभूय मदीयां प्रार्थना स्वीकुरु । तत् श्रुत्वा तया ध्यातमरे रे! ममैवं प्रतिकूलकर्मसमागमो जातः, मयैवं व्यसनपरंपरैवानुभूयते, अथैवं महासंकटे