________________
अप्पाणमणुसाए ||९|| इत्याद्यनित्यभावानां भावयन्, मदनरेखयापि च प्रोत्साहितः स युगबाहुः शुभध्यानपरायणो विपद्य ब्रह्मदेवलोके देवोऽभूत्. अथ वैद्ययुतस्तत्रागतश्चंद्रयशा निजतातं युगबाहुं मृतं विलोक्य भृशं रुरोद . मदनरेखापि चिरं विलापं विधायेति दध्यौ, धिगस्तु मां, याऽहं पत्युर्मरणहेतुरभवं. अथ मम भर्ता तु मृतः, स्त्रियाश्च भर्तेव शरणं. किंच प्रातः स दुष्टो मणिरथो यदि मां ग्रहीष्यति, तदा को मे करिष्यति ? अथ स्वर्गापवर्गसुखदं शीलं तु मया नाप्युपायेन रक्षितव्यमेव इति ध्यात्वा सा मदनरेखा ततः प्रच्छन्नं वनमध्ये निर्ययौ एवं गच्छंती सा मदनरेखा द्वितीयदिने प्रभाते महाटव्यां प्राप्ता, तत्र कस्मिंश्चिज्जलाशये स्नानं विधाय पयः पीत्वा क्वापि कदलीगृहे सुप्ता. एवं तत्र स्थिता फलाहारपरा सा सप्तत दिने पुत्रमसूमे, ततः सा प्रभाते तय बालस्य करांगुल्यां युगबाहुनामांकितां मुद्रां प्रक्षिप्य तं च रत्नकंबलेन वेष्टयित्वा, वृक्षच्छायायां मुक्त्वा स्ववस्त्राणि क्षालयितुं निकटस्थे सरसता. प्रविष्टा सा मदनरेखा जलहस्तिना शुंडया गृहीत्वा व्योम्न्युल्लालिता. तदानीमेव नंदीश्वरतीर्थयात्रार्थं प्रस्थितेनैकेन खेचरेण नभसः पतंती सा जगृहे. तद्रूपमोहितः स खेचरस्तां वैताढ्ये निनाय अथ तत्र विलापं कुर्वती सा खेचरेण तत्कारणं पृष्टा सर्वं निजवृत्तांतं जगौ. भो खेचर ! यत्र स्थानादहं त्वयात्रानीता, तत्र मया पुत्रः प्रसूतोऽभूत्, तं पुत्रं च कदलीगृहे
॥ ३ ॥