________________
मदन० चरित्रम्
********B*XXXBXB&B**********
- फलानि प्राप्नुवंति, यत:-यद्येन विहितन्कर्म । भवेऽन्यस्मिन्निहापि वा ॥ वेदितव्यं हि तत्तेन । निमित्तं ह्यपरो भवेत्
॥ १॥ गृहाण धर्मपाथेयं । कायेन मनसा गिरा ॥ यत्कृतं दुष्कृतं किंचित् । सर्वं गर्हस्व संप्रति ॥ २ ॥ शत्रौ मित्रे सुते पत्न्यां । मणौ दृषदि सर्वथा मोहः सद्भिर्न कर्तव्यो-ऽनंतसंसारदायकः ॥ ३ ॥ ततो मदनरेखया स्मारितो युगबाहुः समग्रजीवक्षमायाचनपूर्वकमाराधनां चकार, तथाहि-यच्च मित्रममित्रं मे । स्वजनोऽरिजनोऽपि वा ॥ ते सर्वे
क्षमयंतु मे । क्षमाम्यहमपीह तान् ॥ १॥ तिर्यक्त्वे सति तिर्यंचो । नरकेऽपि च नारकाः ॥ अमरा अमरत्वे च - मनुष्यत्वे च मानुषाः ॥२॥ ये मया स्थापिता दुःखे । सर्वांस्तान् क्षमयाम्यहं ॥ क्षमंतु मम तेऽपीह । मैत्रीभावमुपागताः
॥ ३ ॥ जीवितं यौवनं लक्ष्मी । रूपं प्रियसमागमः ॥ चलं सर्वमिदं वात्या । नर्तिताब्धितरंगवत् ॥ ४ ॥ - व्याधिजन्मजरामृत्यु-ग्रस्तानां प्राणिनामिह ॥ विना जिनोदितं धर्मं । शरणं कोऽपि नापरः ॥ ५॥ सर्वेऽपि जीवाः
स्वजना । जाताः परजनाश्च ते ॥ प्रतिबंधं न कुर्वेऽपि । तेषु केष्वपि मोहतः ॥ ६ ॥ एक उत्पद्यते जंतु-रेक एव। विपद्यते ॥ सुखान्यनुभवत्येको । दुःखान्यपि स एव हि ॥ ७॥ न सा जाइ न सा जोणी । न तं ठाणं न तं कुलं ॥ न जाया न मुआ जत्थ । सव्वे जीवा अणंतसो ॥८॥ एगोहं नत्थि मे कोइ । नाहमन्नस्स कस्सवि ॥ एवमदीणमणसा ।।