________________
स युगबाहुर्वसंतसमये सप्रिय: क्रीडार्थं नगराद्वहिरुद्याने ययौ . तत्र जलक्रीडादि कृत्वा स युगबाहुर्निशायां स्मृतपंचनमस्कारः कदलीगृहे सुप्तः, इतः स मणिरथो राजा निजभ्रातरं स्वल्पपरिवारयुतं रात्रावुद्याने स्थितं विज्ञाय, तं हंतुं स्वयमेकाकी खड्गहस्तोऽत्र समाययौ. मद्भ्रातुरेकाकिनोऽत्र वने रात्रौ स्थातुं न युक्तमिति मायया प्राहरिकं वदन् स तत्र गृहमध्ये प्रविष्टः. अथ युगबाहुरकस्मात् समागतं तं निजज्येष्ठभ्रातरं दृष्ट्वा समुत्थाय विनयपूर्वकं नतिपूर्वकं नमस्कारमकरोत्. तदैव स दुष्टो मणिरथः स्वकल्पितां वार्तां कुर्वन् खड्गमाकृष्य विश्वस्तं तं निजसहोदरं हतवान्. तत्कालं मदनरेखया पूत्कारे कृते युगबाहुसुभटो यावत्तं हंतुमाययौ, तावत्खङ्गघातविधुरीभूतोऽपि युगबाहुस्तान् सुभटान् प्राह, भो सुभटाः ! ममायं सहोदरो भवद्भिर्न हंतव्यः, अस्मिन् विषये मम भ्रातुर्न दूषणं, मदीयं पुराकृतं दुष्कर्मैव प्रकटीभूतं. एवं तैः सुभटैर्मुक्तः स मणिरथो राजा निजवांछितं कार्यं सिद्धं मन्यमानो हृष्टो द्रुतं ततः पलाय्य स्वगृहे समाययौ, तत्र चाकस्मात्तदैव सर्पेण दष्टः स पंचत्वं प्राप, यतः - अत्युग्रपुण्यपापानामिहैव फलमाप्यते ॥ त्रिभिर्मासैस्त्रिभिः पक्षै - स्त्रीभिर्यामैस्त्रिभिर्दिनैः ॥ १ ॥ अथ चंद्रयशाख्यो युगबाहुपुत्रो निजजनकव्रणचिकित्सार्थं वैद्यमाकारयितुं नगरमध्ये ययौ . इतोऽतकालनि:श्वासान् गृह्णतं तं निजपतिं मदनरेखा जगौ, हे स्वामिन् ! अथाधुना भवद्भिर्मनागपि खेदो न कर्तव्यः, जीवाः स्वकृतकर्मणामेव
XXXXXXXX
॥ २ ॥