________________
मदन० चरित्रम्
स नूनं यमातिथिरेव भविष्यति. यदिवा केनचित्कूटोपायेन स कदाचित् मह्यं बलात्कारं करिष्यति, तदाहं मदियशरीरार्पणस्थाने तस्मै मम प्राणानेव दास्ये. उत्तमाचेहामुत्र विरुद्ध नाचरंति. यत:-जीवघातादलीकोक्तात् । परद्रव्यापहारतः ॥ परस्त्रीकामनेनापि । व्रजति नरकं न के ॥१॥ परस्त्रीग्रहणे वांछा । न कार्या भूभुजा क्वचित् ॥ यतो भूपानुगा लोका । भवंति जगतीतले ॥ २॥ एवं विधानि तस्या वचनानि निशम्य विलक्षीभूता सा दासी तत: पश्चानिवृत्य भूपोपांते गत्वा मदनरेखोक्तं सकलं वृत्तांतं कथयामास. तत् श्रुत्वा स कामातुरो नृपो विशेषतस्तां मदनरेखां
भोक्तुं दध्यौ, नूनं युगबाहौ जीवति मामियं नांगीकरिष्यति, तत: केनाप्युपायेन प्रथमं तं युगबाहुमेव हन्मि, पश्चानिराधारा 8 सा सुखेनैव मां स्वीकरिष्यति. इति ध्यात्वा स दुष्टो निजं लघु भ्रातरं हंतुमवसरं विलोकयति. इतोऽन्यदा तया मदनरेखया - निशाशेषे स्वप्नमध्ये संपूर्णेदुर्दष्टः, ततस्तया स स्वप्नवृत्तांतो निजस्वामिने युगबाहवे निवेदितः, तदा स प्राह, हे
प्रिये ! मनुष्येषु चंद्र इव सौम्यवान् शांतगुणोपेतस्ते तनयो भविष्यति. क्रमादथ तृतीये मासि तस्या मदनरेखाया इति दोहदः समुत्पन्नः, यथाहं जिनेन्द्राणां पूजां करोमि, गुरून् प्रतिलाभयामि, धर्मकथां शृणोमि, अन्यं च श्रावयामि यत:-याद्दशो जायते गर्भे । जीव: शुभोऽथवाऽशुभः ॥ तादृशो मातुरेव स्या-न्मनोरथः स्वमानसे ॥१॥ अथान्येद्युः