________________
अथ तदीय भोगाविलासवांछया स राजा तां लोभयितुं दास्या हस्तेन वर्यपुष्पतांबूलवस्त्रालंकारादीनि वस्तूनि तस्यै नित्यं प्रेषयामास सा निर्मलहृदया मदनरेखा तु नूनमयं ज्येष्ठप्रेषितो महाप्रसाद इति मत्वा तानि वस्तून्यंगीचकार, एवं वस्तूनामंगीकारतः स कामातुरो मणिरथनृपो निजचेतस्येवं मन्यते स्म, यत्सा मदनरेखा नूनं मया सह भोगविलासान् कर्तुं वांछति, अतो मदीयाभिलाषोऽपि संपूर्णो भविष्यति इति विचिंत्य तेने दुष्टेनैकदा निजदास प्रेष्य मदनरेखाया निजाऽनुचित्तेच्छा ज्ञापिता, सा दासी तत्र गत्वा तां मदनरेखां प्रति प्राह-भद्रे ! त्वदीयरूपाद्यासक्तो मणिरथो नृपः त्वां च भोगविलासार्थं मन्मुखेन प्रजल्पति ॥ १॥ एवंविधं तस्या दास्या वचः श्रुत्वा वज्राहतेव सा मदनरेखा तामुवाच, भो दासि ! त्वया स मज्ज्येष्ठो मदीयवचसैवं वाच्यः, यत्तव कुलीनस्यैतत्कार्यं कर्तुं न शोभते, त्वं तु मदीयज्येष्ठः पितातुल्योऽसि, किं च माद्दशा: कुलीना वध्वः प्राणांतेऽपि वेश्योचितं कार्यं न कुर्वति. जगति या कापि स्त्री निजशीलभंग करोति, सा नूनं नरकगामिन्येव भवति किंच - अणंताओ कम्मरासीओ। जया उदयमागया ।। तया इत्थीत्तणं पत्तं । सम्मं जाणेह गोयमा ॥ १ ॥ किंच तस्य राज्ञोऽतः पुरे मनोहरा राज्ञ्यो विद्यंते, तासु सत्स्वपि स मूढ इव कथमन्यां स्त्रियं वांछति ? एवंविधमनोरथेन स नूनं नरकगामी भविष्यति किंच मम भर्तरि जीवति यः कोऽपि मां भोक्तुमिच्छति,
॥ १ ॥