________________
मदन० चरित्रम्
॥ श्री जिनाय नमः ॥
॥ नमो नमः श्री गुरुप्रेमसूरये ॥
॥ अथ श्रीमदनरेखाचरित्रं प्रारभ्यते ॥ (कर्ता - श्रीशुभशीलगणी)
पालयंति सदा शीलं । मुक्त्यादिसुखदायकं ॥ भव्या मदनरेखाव- न्मनसा वपुषा गिरा ॥ १ ॥ तथाहि - भरतखंडभूषणे सुदर्शनाभिधे नगरे मणिरथाभिधो राजा राज्यं करोति स्म तस्य लघुर्भ्राता युगबाहुश्च युवराजोऽभूत् तस्य युगबाहोः मदनरेखाभिधा शीलशालिनी प्रियाऽजनि तस्या अतीव-मनोहरां रूपश्रियं विलोक्य स मणिरथो राजा मोहितः स्वचेतसीति दध्यौ, इयं मदनरेखा मया ध्रुवं ग्राह्यैव, यद्यहमेतया सह भोगविलासान्न कुर्वे, तदा मम जन्म निष्फलमेव भविष्यति.
ARRER