________________
मदन० चरित्रम्
प्राणते देवलोकेऽहं सुरोऽभवं. ततः स नमिः स्वं पुत्रं राज्येऽभिषिच्य शासनदेवतादत्तरजोहरणः संयमं प्रतिपन्नवान्..
तदा शक्रो द्विजवेषमादाय तं परीक्षितुमाययौ. स द्विजस्तं नमिराजर्षि प्रत्यवदत्, भो राजंस्त्वया सांत:पुरं राज्यं तृणवत् - त्यक्त्वा यत्संयमो गृहीतस्तन्न सुंदरं कृतं, त्वया जीवदयापालनायैव दीक्षा गृहीतास्ति, परं त्वद्वतग्रहणत
एतास्तेऽत:पुरस्त्रियो विलापान् कुर्वति, अतस्तवेदं संयमग्रहणं निष्फलमेव. तत् श्रुत्वा नमिराजर्षिरुवाच, भो द्विज ! मम व्रतग्रहणं तासां दु:खकारणं न, किंतु लोके स्वस्वार्थहानिरेव दुःखस्म कारणं, ततोऽहमपि स्वार्थमेव साधयामि,
परजल्पनेन किं? द्विज आह, भो राजर्षे ! अधुना ते गृहाणि अंत:पुराणि च ज्वलमानानि संति, त्वं तानि किमुपेक्षसे ? B उपेक्षया च लोके तवापवादो भवति, यत आश्रितस्योपेक्षणं पापं, त्वं तु चतुरोऽसि, अतो विचारय, नमिराह भो ।
द्विज ! अथैतानि गृहाणि अंत:पुराणि च मदीयानि न संति. पुनराह द्विजः पुर्यां प्राकारमति दुर्गमं ॥ नानायंत्रयुतं । राजन् । कारयित्वा परिव्रजे: ॥१॥ राजर्षिः प्राह भो भद्र!। संयमो नगरं मम ॥ शमाख्यो विहितस्तत्र । प्राकारो नययंत्रवान् । ॥२॥ द्विजोऽवोचन्निवासाय । लोकानां सुमनोहरान् ॥ प्रासादान् कारयित्वा भोः!। क्षत्रिय प्रव्रजेस्ततः ॥ ३ ॥ मुनिः