________________
प्रोचे कुधीरेव । कुर्यात् पथि वहन् गृहं ॥ निश्चलं यत्र संस्थानं । युक्तं तत्रैव मंदिरं ॥४॥ द्विजः प्राह निग्रह्यादौ । चौरान् सुस्थं पुरं कुरु ॥ स आह चौरा रागाद्या । निगृहीताश्च ते मया ॥५॥ द्विजः प्राह च राजर्षे !। नमंति न. तवोद्धता: ॥ पार्थिवास्तान् विनिर्जित्य । प्रव्रज्याग्रहणं कुरु ॥६॥ स आह भूरिशो वीरा । मुधा पूर्वं जिता मया ॥ यद्यात्मानं जयाम्येक । मेष मे परमो जयः ॥७॥ इत्याद्युत्तरप्रत्युत्तरपरंपरा विशेषत: श्रीउत्तराध्ययनसूत्रतो ज्ञेया.
2 इत्यादिविप्रोक्तसर्ववचनान्यवगणय्य यावत् स नमिराजपिर्निश्चलमना अग्रतोऽचालीत्तावत् स्वरूपस्थ इंद्रो नमिं प्रति प्राह,
भो राजर्षे ! नूनं त्वं धन्यः कृतार्थश्चासि, त्वया सर्वेऽपि भावारयो जिताः, जगति च प्रशंसापात्रमसि, तस्येत्यादिस्तुति कृत्वा शक्रस्तं भावतो नमस्कृत्य स्वर्ग अगाम. क्रमेण स नमिराजर्षिपि तीव्र तपस्तप्त्वा क्षीणसर्वकर्मा केवलज्ञानयुतो मुक्तिं ययौ. अथ सा मदनरेखा साध्यपि संयतिनीपार्श्वे स्थिता तीव्र तपस्तपस्यंती सर्वकर्मक्षयात् केवलज्ञानमवाप्य मुक्तिं ययौ.
॥ इति श्रीमदनरेखाचरित्रं समाप्तं ॥ श्रीरस्तु ॥