Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भ्रातरावज्ञानाद्युद्धं कुर्वाणौ नरकगामिनौ भविष्यतः, इति ध्यात्वा सा सुव्रताचर्या गणिनी समापृच्छ्य तयोः प्रतिबोधार्थं साध्वीपरिवारयुता चचाल. प्रथमं सा नमिनृपपार्श्वे समागमत्, तेदा नमिनृपेणाभ्युत्थानपूर्वकं साध्वी वंदिता, तत: साध्वी तस्मै धर्मोपदेशं ददौ, यथा-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुए सद्धा । संजमंमि व वीरियं ॥१॥ तत: सा साध्वी रहसि नमेरो इदमब्रवीत्-राजन्नस्मिन् भवे दुःख-दायके राज्यत: खलु ॥ गच्छति नरके घोरे। जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्ठभ्रात्रा समं युद्धं । कर्तुं न युज्यते तव ॥ नमिः प्राह कथं जयेष्ठ-भ्रातायं विद्यते मम ॥ २ ॥ ततः साध्व्याऽनेन चंद्रयशसा सह तस्य सहोदरभवनसंबंधः प्रोक्तः, तत: प्रत्ययार्थं राज्ञा पुष्पमाला पृष्टा, हे मातः! अहं कस्याः पुत्रः? तदा पुष्पमालया प्रोक्तं, नूनं त्वमस्या मदनरेखाया एव पुत्रोऽसि, इत्युक्त्वा तया तस्मै मुद्रायुक्तं कंबलं दर्शितं. एवं निजजनन्या साध्ळ्या निवारितोऽपि स नमिनोऽभिमानाभिभूतो युद्धान्न विरराम. ततः सा साध्वी चंद्रयशस: पार्श्वे गत्वा तस्मै धर्मोपदेशं ददौ. तदा चंद्रयशा जगौ, भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागा: ? तदा साध्व्या स्वकीयद्वितीयएत्रोत्पत्तिसंबंधस्तस्मै निवेदितः. ततो सजा जगौ, हे मात: ! सांप्रतं स मे भ्राता कुत्रास्ति ? साव्या प्रोक्तं, येनाधुना तव पुरं सैन्येन वेष्टितमस्ति, स एव तव भ्रातास्ति.
॥
७
॥

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152