SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ संप्रतिनृपतिचरित्रम् ॥ 2. गुरवः क्वचित् । भव्यं भक्ष्यं तयोस्तत्त-द्यच्छन्ति प्रतिबन्धतः ॥२२५॥ क्षुल्लकाभ्यां ततोऽचिन्ति विभात्येतन्न सुन्दरम् । यतो गुरुषु + सीदत्स, का गतिर्नो भविष्यति ॥२२६।। कुलं येन सनाथं स, पुमान् यत्नेन रक्ष्यते । तारकाः स्युः किमाधारा-स्तुम्बे नाशमुपेयुषि ॥२२७।। चलद्दन्ते गतमदे, जराजर्जरितेऽपि च । सनाथं सर्वथा नूनं, यूयं यूथपतौ सति ॥२२८॥ तत्पूज्यैर्नव्यसूरीणां, दीयमानस्तदा निशि । श्रुतोऽस्त्यञ्जनयोगो यः, कुर्वस्तमिह संप्रति ॥२२९॥ इत्यालोच्य कृतस्ताभ्यां, योगः सिद्धश्च तेन च । भूत्वाऽदृश्यौ गतौ - चन्द्रगुप्तेन सह जेमितुम् ॥२३०॥ तमालोक्य च भुञ्जानं, पार्श्वयोरुपविश्य च । भुक्त्वा यातौ तथैवाथ, भुञ्जाते ते दिने दिने ॥२३॥ राजाऽन्यदिनमानेन, भक्ते भुक्तोद्धते सति । अजीर्णभयतो वैद्यैः, सपद्युत्थाप्यते स्म सः॥२३२।। एवं चैकस्य भोज्या, भुज्यमानैर्जनैस्त्रिभिः । अतृप्यन् कृशतां याति, राजा वक्ति ह्रिया न च ॥२३३।। कृष्णपक्षेन्दुवच्चन्द्र-गुप्तं काय॑जुषं ततः । पप्रच्छ चणिसूर्वत्स !, द:काल: किं तवाऽपि हि ॥२३४॥ स ऊचे नाऽऽर्य ! तृप्यामि, चाणिक्योऽचिन्तयत्ततः । अव्यक्तः कोऽपि सिद्धोऽस्याऽऽहारं हरति निश्चितम् ॥२३५।। द्वितीयेऽन्यैष्टिकञ्चूर्णः, कीर्णो भोजनमण्डपे । द्वयोर्बालकयोस्तत्र, पदपङिक्तस्ततोऽभवत् ॥२३६।। निश्चिकाय तया मन्त्री, नूनं सिद्धाञ्जनाविमौ । द्वारं बध्वा ततस्तत्र, सद्यो धूममकारयत् ॥२३७॥ धूमेन गलतोरक्ष्णोरश्रुभिः क्षालितेऽञ्जने । दृष्टौ नृपस्य पार्श्वस्थौ, भुञ्जानौ क्षुल्लकावुभौ ॥२३८॥ आभ्यां विटालितोऽस्मीति, राजाऽभूद् दुर्मना मनाक् । मा भूच्छासनहीलेति, तमेनं स्माह धीसखः १. मोहात् ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy