________________
BRISHA
॥२३९॥ कालुष्यं वत्स ! किं धत्से, शुद्धिरद्यैव तेऽभवत् । यद्बालयतिभि: सार्द्ध, भुक्तोऽस्येकत्र भाजने ॥२४०॥ क: साधुभिः समं भोक्तु-मेकत्र लभते गृही । ततस्त्वमेव पुण्यात्मा, सुलब्धं जीवितं च ते ॥२४१॥ न तु दुर्गतिं लभन्ते, भुञ्जाना ये महर्षयः । तैः समं भोजनादद्य, श्लाघनीयोऽसि कस्य न ॥२४२।। एते हि त्रिजगद्वन्द्या:, कुमारब्रह्मचारिणः । एतत्पादरजोऽपीह, पावनेभ्योऽपि पावनम् ।।२४३॥ चन्द्रगुप्तं प्रबोध्यैवं, क्षुल्लकौ तौ विसृज्य च। चाणिक्योऽप्यनु तत्रागा-दुपालम्भं ददौ गुरोः ॥२४४॥ प्रभो! भवद्विनेयावप्येवं यत्कुरुतस्ततः । अन्यत्र कुत्र चारित्रं, पवित्रं प्राप्स्यतेऽधुना । २४५|| गुरुणा भणित: सोऽथ, चाणिक्य ! श्रावको भवान् । मोदिष्यते त्वया स्वस्थः, स श्रावकचर्णश्चणी ॥२४६॥ प्राप्तोत्कर्षेऽपि दुःकाले, प्राप्तोत्कर्षे च वैभवे । तवैदृक्षान्महादानाद्, भवाम्भोधिन दुस्तर: ॥२४७। अत एवाखिलो गच्छ:, प्रैषि देशान्तरं मया । त्वादृशं श्रावकमिह, मत्वा कल्पद्रुमायितम् ।।२४८॥ क्षुल्लकद्वयमप्येत-द्यदेवं वर्त्तते मम । श्रावकस्य प्रसिद्धिस्ते, भविष्यति महीयसी ॥२४९॥ शिष्यावपि गुरु: स्माह, युवाभ्यां किमहो कृतम् । त्याज्यो हि साधुभिर्मात्मा, महत्यपि परीषहे ॥२५०॥ करिण: करिसट्टे, निष्कस्य कषपट्टके । व्यसने सात्त्विकानां च, सारत्वं ज्ञायते खलु ॥२५॥ क्षमयामासतुः शिष्यौ, तत: स्वाग: प्रणम्य तौ । करिष्याव: पुनर्नैवे, प्रभो ! मिथ्याऽस्तु दुष्कृतम् ॥२५२॥ चाणिक्योऽप्येतदाकर्ण्य, लज्जितो गुरुमूचिवान् । प्रभोऽनुशास्तिना वाऽहं, भवाम्भोऽस्त्वयोद्धृतः ॥२५३।। इतः प्रभृति मरेहे, विशुरशनादिभिः । अनुग्रहः सदा कार्यो, निस्तार्योऽहं प्रमद्वरः ॥२५४॥ इयन्त्यहानि भक्ताद्यै-रुपष्टम्भः कृतो न यत् । तन्मे प्रसद्य शिष्याणोः, क्षमणीयं १ धुर्यः। २ शिक्षानौकया।
॥९॥
Satuatia